SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir शा.रा.भू. प्रभप्रकारमाह काविति ॥१॥राक्षसत्वेन प्रकृत्या ज्वलिताननमिति भयहेतूक्तिः । आत्मनः सम्बन्धि इक्ष्वाकुकुलमुवाचेत्यन्वयः । इश्वाकुवंश्यदशरथ टी.आ.को. पुत्रावावां पितृवचनादनं गमिष्याव इत्युवाचेत्यर्थः॥ २ ॥ अधर्मचारिणौ पापाविति पूर्वोक्तविराधवचनस्योत्तरमाह-क्षत्रियो वृत्तसम्पन्नाविति । .३ वामिति कस्य पुत्रः किंप्रभाव इति ज्ञातुमिच्छामीत्यर्थः। 'अहं वनमिदं दुर्ग विराधो नाम राक्षसः' इति नामजात्योः पूर्वमुक्तत्वान्न तद्विपयोऽयंप्रश्नः॥३॥ तमुवाच ततो रामो राक्षसं ज्वलिताननम् । पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः॥२॥ क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ । त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ३॥ तमुवाच विराधस्तु रामं सत्यपरा क्रमम् । हन्त वक्ष्यामि ते राजन निबोध मम राघव ॥ ४॥ पुत्रः किल जयस्याहं मम माता शतदा। विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥५॥ तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा । शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्य त्वमेव च ॥६॥ उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् । त्वरमाणौ पलायेा न वां जीवितमाददे ॥७॥ रामानु०-क्षत्रियाविति । वनगोचराविति बहुव्रीहिः ॥ ३ ॥ तमिति । हन्तेति स्वाभिप्रायकीर्तनोद्योगजगर्वेण । मम मत्तः मे स्वरूपमिति शेषः । निबोधेत्युवाचेत्या न्वयः॥४॥ विराधः विगताराधनः दुराराध्य इत्यन्वर्थसंज्ञः । राक्षसाः सजातीयाः, सजातीयैः कृतं नामेदं न तु मातापितृभ्यामिति भावः ॥५॥ चापि किञ्च। तपसा साधनेन ब्रह्मणः प्रसादजा शस्त्रेणावध्यता अमारणीयता प्राप्ता । अच्छेद्याभेद्यत्वं च प्राप्तम्, प्राणवियोजनहेतुखण्डनविदारणानहत्वं 2च प्राप्तमित्यर्थः॥६॥ अनपेक्षी अपेक्षायां मरणं ध्रुवमिति भावः। त्वरमाणौ मन्दगमने मे मनश्चलेदिति भावः । न वां जीवितमाददे उत्तमप्रमदारत्न तमिति । आत्मनः इक्ष्वाकुकुलमिक्ष्वाकुवंशप्रभवत्वम् उवाचेत्यन्वयः ॥ २ ॥३॥ हन्तेति । मम निबोध मम वचनान्मे स्वरूपमिति शेषः ॥४॥५॥शखेण येन केनापि शस्त्रेण शखबलेनाच्छेद्याभेद्यत्वम्, छेदभेदाभ्यामव्यथनीयत्वं ताभ्यां व्यथा नास्तीत्यर्थः ॥६॥ अनपेक्षी प्रमदाशारहितो। वो युषयोः । वस्तुतस्तु-उत्सृज्य स०-वनं गोचरो ययोस्ती । वनस्य या गौर्भूस्तस्यां चरत इति तो तयोती । समासान्तविधेरनित्थत्वान्न टच् । यद्वा गवि चरतो गौचरी वनस्य गोचरी वनगोचरी । वनपदार्थस्य योग्यतया गोचरपदैकदेशगो पदार्थेनानन्वयः । " दीप्तानलार्फगुतिमप्रमेयम्" इत्यत्राप्रमेषत्वस्य युतावन्वयो ज्ञेयः ॥ ३ ॥ सर्वराक्षसा इत्यनेन लोकप्रसिद्धत्वं द्योतयति ॥ ५॥ लोके ये छेयास्तेषाममेयत्वम् । यद्वा यानामनानामभेद्यत्वम् । अवध्यत्वप्रकारनिरूपणं वैतत् ॥ ६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy