________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारितं पुनरागन्तव्यमिति क्षमापणस्य कृतत्वात् कुतः पुनः रामलक्ष्मणाभ्यां तत्र राज्यापहारित्वमनुस्मर्यंते ! उच्यते-अनन्तरं तथानुष्ठानेपि पूर्व कैकेय्या तथा चिन्तितत्वात्तस्य चावश्यकर्तव्यत्वा दुःखकाले तच्चिन्तनम् । तथापि व्यसनकालेपि परदोषोद्घाटनं सत्पुरुषानुचितं रामप्रकृतिविरुद्धंं च सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन दोषदर्शनमेव रामस्य हार्द तदुपेक्षकत्वं त्वभिनयमात्रमिति स्यात् । अत्रोच्यते व्यसनकाले लोको मम भुजबलवेगवेगितः पततु शरोऽस्य महान महोरसि । व्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकिये आदिकाव्ये श्रीमदारण्यकाण्डे द्वितीयः सर्गः ॥ २ ॥
* अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम् । आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ॥ १ ॥ वाच्यमवाच्यं च न जानातीत्यमुमर्थं व्यञ्जयितुमेवमुक्तमिति ॥ २५ ॥ ममेति । भुजबलवेगेन धनुराकर्षणवेगेन वेगितः आनीतवेगः । इतजन्तो वा । विघूर्णितः || सञ्जत भ्रमणः ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वितीयः सर्गः ॥ २॥ अथ विराधानुग्रहाय तदाक्रमणं तृतीये- अथोवाचेत्यादि । पूरयन्, शब्दनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यमिति शेषः । ब्रूतमिति लोण्मध्यमपुरुषद्विवचनम् पृच्छति स कृत्वेत्यादिश्लोकपञ्चकेन । ततः स विराधः अङ्के समीपे आगत्येतिशेषः । वैदेहीमनादाय अपक्रम्याब्रवीत्, रामलक्ष्मणाविति शेषः । युवामिति सभार्यौ सभायामार्यौ क्षीणजीवितो क्षीणं जीवितमरीणां याभ्याम् । शरचापासिधारिणौ सन्तो जटाचीरधरौ च सन्तौ दण्डकारण्यं प्रविष्टौ । यद्यपि तापसयोव प्रमदया सह वासो यद्यपि तथापि कथं पापौ कथं मुनिदूषकों, तादृशौ न भवत इत्यर्थः । अत्र हेतुः - अधर्मचारिणौ अधर्मं चरतो भक्षयतो नाशयत इति तथा एतादृशविशेषणविशिष्टौ को युवाम् ? किख अहमिति । अहं विराधो नाम राक्षसः इदानीं मम पापयोः पापाभ्यां हस्ताभ्यामिति शेषः । ऋषिमांसानि भक्षयन् सायुधो मृधे रुधिरं पास्यामीति धिया दुर्ग वनं चरामि । किञ्च मया कान्त्या आर्या श्रेष्ठा इयं नारी युवयोः का भविष्यतीति तावब्रवीदिति पूर्वेण सम्बन्धः । तस्येति । ऋषिमांसानि भक्षयन् चरामीत्येवं दुष्टं यथा तथा विराधस्य ब्रुवतः सतः सीता प्रावेपत। तामिति । विराधाङ्के विराधस्य समीपे प्रवेशितां स्थितामित्यर्थः । सीतां दृष्ट्वा परिशुष्यता मुखेनोपलक्षितः सीताभीत्येति शेषः । अब्रवीत् । पश्येति विराधाङ्के तत्समीपे प्रवेशितां स्थिताम् । यदभिप्रेतमित्यादिवाक्यानि सीताभी तिनिमित्तेनोक्तानीति द्रष्टव्यानि । परस्पर्शात् परस्य राक्षसस्य स्पर्शात् समीपगमनादित्यर्थः । वाष्पशोकपरिप्लुते सीताभीतिनिमित्तमिति भावः ।। २३-२५ ॥ | ममेति । भुजबलवेगवेगितः भुजबलस्य वेगेन वेगितः । सञ्जातवेगः सशरः महीं मह्यां पततु, विराध इति शेषः ॥ २६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्वितीयः सर्गः ॥ २ ॥ अथेति । पूरयन् शब्देनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यम् ॥ १ ॥
इत्युक्त्वा लक्ष्मणः श्रीमान् राक्षसं प्रहसन्निव को भवान्वनमभ्येत्य चरिष्यति यथासुखम् । इतीति । उक्त्वा रामं प्रतीति शेषः । राक्षसम् अब्रवीदिति शेषः । अयंश्लोकः महेश्वरेण व्याख्यावः ||१||
For Private And Personal Use Only