________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
म.
७॥
स०२
का
कैकेयी नूनममन्यतेति भावः। पुत्रार्थे पुत्रप्रयोजननिमित्तम् । माता मम मध्यमेति । यद्यपि पूर्व मम माता कनीयसीत्युक्तम् तथापि महिषीत्रयापेक्षया कनीयसीत्वं सर्वदशरथपत्न्यपेक्षया मध्यमात्वम्, त्रिशतं पञ्चाशच्च दशरथपत्न्यः सन्तीति पूर्वमेवोक्तम् । अद्य अस्मिन् दिवसे । इदानीम् अस्मिन् क्षणे ॥ १९॥२०॥ किं ते तादृशं व्यसनं तबाह-परस्पर्शादिति । वैदेह्याः परस्पर्शाद्यथा दुःखतरम् अतिदुःखं पितृवियोगाद्राज्यहरणाच्च तथा दुःख
परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे । पितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ॥ २१ ॥ इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते । अबवील्लक्ष्मणः क्रुद्धो रुखो.नाग इव श्वसन् ॥ २२॥ अनाथ इव भूतानां नाथस्त्वं वासवोपमः। मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥२३॥ शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः। विरा धस्य गतासोर्हि मही पास्यति शोणितम् ॥ २४॥ राज्यकामे मम क्रोधो भरते यो बभूव ह । तं विराधे प्रमो
क्ष्यामि वजी वचमिवाचले ॥ २५॥ नास्तीति योजना ॥२१॥ इतीति । रुद्धः मन्त्रगणनिरुद्धः । नागः सर्पः। श्वसन् रामशोकदर्शनादिति भावः ॥२२॥ वासवोपमो भूतानां नाथः सन् अनाथ इव नाथसापेक्षो नर इव । विशिष्य मया प्रेष्येण सहितोपि किमर्थ परितप्यसे । वास्तवार्थस्तु-भूतानां सर्वलोकानां नाथः वासव उपमीयतेऽनेनेति । वासवोपमः त्वम् अनाथ इव नाथभिन्न इव किमर्थं परितप्यसे । एवमेव तत्त्वं जगुः । यथा विश्वामित्रः "अहं वेद्मि महात्मानम्" इति । यथा च परशु रामः " त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः" इति । एवमृषयोपि ॥२३॥ प्रेष्येण त्वया किं क्रियत इत्यत्राह-शरेणेति ॥२४॥ कैकेय्याः भरतार्थ राज्यकायित्वात् भरतस्यापि राज्यकामत्वम् । तं विराधे विमोक्ष्यामीति शरणागते भरते दुर्विमोचत्वादिति भावः । ननु भरतकैकेयीभ्यामज्ञानात् प्रवासनं कैकेयी, अन्यासा दशरथस्त्रीणां ज्यायसीत्युभयात्मकता विद्यत इत्युभयनिर्देशः ॥१९॥२०॥ वैदेह्याः परस्पर्शात् यथा मे दुःखतरम् अतिदुःखं तथा पितुर्विनाशात स्वराज्यहरणादपि मे दुःखं नास्तीत्यन्वयः ॥ २१ ॥ बाप्पशोकपरिप्लुते नेत्रजलमनस्तापाभ्यां व्याप्ते क्रुद्धः केकीयीं प्रति ॥ २२ ॥ भूतानां ब्रह्मादीनामपि नाथः परमपुरुषोपि त्वम् अनाथ इव प्राकृत इव किमर्थं परितप्पसे । “स राम लक्ष्मणं दृष्ट्वा" इत्यारभ्य “किमर्थं परितप्यसे" इत्यन्तस्य ग्रन्थसन्दर्भस्य वास्तवार्थस्तुसः विराधा राम लक्ष्मणं वैदेहीं च दृष्ट्वा संक्रुद्धस्सन सीतामभ्यधावत्, ग्रहीतुमितिशेषः । रामादीन दृष्ट्वा तत्तेजसाभिभूतो विराधः स्ववृत्तान्तं कथयन् तान ।
॥७
For Private And Personal Use Only