________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
NI
.रा.भ.
इतीति । द्विजातिवेषेण संन्यासिवेषण । हितं सहितम् । सत्कियते एभिरिति सत्काराः पूजाद्रव्याणि तैः॥ ३२ ॥ उक्तं विवृणोति-उपनीयेति । पायेन शटी.आ.का. पादोदकेन । अभिनिमन्त्र्य सत्कृत्य । तदा पाद्यप्रदानानन्तरं सिद्धमित्येवाब्रवीत् । पक्वान्नं सिद्धमित्यत्रवीत् ॥ ३३ ॥ उक्तमर्थ सर्गान्तोकाभ्यांस.४६ विवृणोति-द्विजातीत्यादि। द्विजातिवेषेण समागतम् । पात्रम् अलाबुप्रभृतिष्वेकं कुसुम्भं महारजताख्यरञ्जकद्रव्यविशेषरक्त वस्त्रम् । तेनरक्तम्-" इति
इति प्रशस्ता वैदेही रावणेन दुरात्मना। द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम् । सर्वेरतिथिसत्कारैः पूजया मास मैथिली ॥३२॥ उपनीयासनं पूर्व पायेनाभिनिमन्त्र्य च । अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ ३३॥ द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् । अशक्यमुद्देष्टुमपायदर्शनं न्यमन्त्रय ब्राह्मण वत्तदाङ्गना ॥ ३४ ॥ इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति । इदं च सिद्धं वनजातमुत्तमं
त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३५॥ प्राप्तस्यानो लोप आर्षः। यद्वा कुसुम्भः कमण्डलुः । “स्यान्महारजने कीबं कुसुम्भं करके पुमान्" इत्यमरः। तदुभयधारिणम् । अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । अत एव उद्देष्टुं भोजयितुमशक्यं तं समीक्ष्य मैथिली ब्राह्मणवत् ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रयत् ।। ब्राह्मणातिथिवनिमन्त्रितवतीत्यर्थः । यद्वा ब्राह्मणवत् ब्राह्मणाईम् “तदईम्" इति वतिः। यद्वा मैथिली जनककुलजाततया तब्यवहारपरिपाटीविज्ञातकपटवेपापि संन्यासिवेषधारणमात्रेण उद्देष्टुं द्वेष कर्तुम् अशक्यं तं न्यमन्त्रयत् । “काषायदण्डमात्रेण यतिः पूज्यो न संशयः" इति वचनादिति भावः॥३४॥ सत्कारप्रकारमाह-इयमिति। इयं वृसी मुनीनामासनम् । आस्यतां त्वदर्थ सिद्धं पक्वम् इदं वनजातं कन्दमूलफलादिकम् । इह स्थले अव्यग्रसुपभुज्यताम्।। प्रशस्ता प्रशंसिता ॥३२॥ आतिथ्यकरणेन अाद्यनन्तरं पकानं सिद्धं भूतमित्यादिशब्दः ब्यादिति शास्त्रात्तथैवाबवीदित्यर्थः ॥ ३३ ॥ पात्रकुसुम्भधारिणं| पात्रमलाबुप्रभृतिष्वेकं कुसुम्भं रक्तवस्त्रम् । कुसुम्भशब्देन रक्तवर्णे लक्षणा वा । अपायदर्शनम् अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । डोष्ट " भोजयितुम् । यदा आतिषित्वाद्देषं कर्तुमशक्यम् । ब्राह्मणवत ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रवद । ब्राह्मणातिथिमिव निमिन्त्रितवतीत्यर्थः ॥३४ासी यत्यासनम् । सिद्धं पक्कम् । वनजातं वनोद्भुतं कन्दमूलादि त्वदर्थमुपकल्पितमिति शेषः। टी-"पतीना पूजनं कार्य निषा वा पुरुषेण वा" इत्युक्तत्वात्सीता तमधूजयदिति भावः॥१५॥
For Private And Personal Use Only