SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir १०६॥ मायेपेत्यत्र इतिकरणं बोध्यम् ॥२३॥ हा सीत इत्यादि । हष्टतनूरुहः भयात्पलाकतः, अभदिति शेषः॥ २४ ॥२५॥ तत्रेति । विषादजंटा .आ.का. विषादोत्थम्, विषादो भविष्यतीत्युत्पन्नम् ॥२६॥ राक्षसमित्यादि । हत्वा मरणानुकूलव्यापारं कृत्वा ततस्तदुक्तं स्वरं श्रुत्वा त्वरमाणो रामः जनस्थान स०४६ हा सीते लक्ष्मणेत्येवमाश्य च महास्वनम् ।ममार राक्षसः सोयं श्रुत्वा सीता कथं भवेत् ॥२४॥ लक्ष्मणश्च महाबाहुः कामवस्था गमिष्यति । इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः॥२५॥ तत्र रामं भयं तीव्रमाविवेश विषादजम् ॥२६॥ राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् । निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥२७॥ इत्यार्षे श्रीरामा० श्रीमदारण्यकाण्डे चतुश्चत्वारिंशः सर्गः॥४४॥ आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने। उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ १॥ नहि मे हृदयं स्थाने जीवितं वावतिष्ठति । कोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥२॥ आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि। तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् । रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ॥३॥ जनस्थानस्थस्वाश्रममुद्दिश्याभिमुखः सन् ससार ययौ । अत्र सार्घसप्तविंशतिश्लोकाः॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥४४॥ अस्थाने भयशङ्किन्या जानक्यापि सुहृजनम् । धिकृत्य चिन्तितं रामं नित्यापूर्वमहं भजे ॥ आर्तस्वरं त्वित्यादि ।भर्तुः भर्तुस्स्वरस्य ॥१॥ नहीति । हृदयं मनः । जीवितं प्राणः । वाशब्दः समुच्चये । स्थाने स्वस्थाने मोहो जायत इति भावः । शरणेपिणं रक्षकार्थिनं गोवृषमिति सामान्य स्यैषा मायेति लक्ष्मणेन पूर्व यदुक्तं तत्तथैवाभवत् । कुतः १ मारीच एव मया इतः ॥ २३ ॥ २४ ॥ हृष्टतनूरुहः वासाद्रोमाविततनुरभवदिति शेषः ॥ २५ ॥२६॥ जनस्थानमभिमुखः जनस्थानमध्यवर्ति निजाश्रममुद्दिश्येत्यर्थः ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥१४॥ ॥१-३॥ ॥१०६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy