SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir विशेषयोःप्रयोगः करिकलभवत् । इति सीता लक्ष्मणमुवाचति सम्बन्धः ॥२॥३॥ न जगामेति ।शासनम् 'अप्रमत्तेन ते भाव्यम्' इत्यायुक्तम् ॥४॥ मित्र रूपेणोपलक्षितः रूपेण मित्रसदृशः क्रियया शत्रुतुल्योसीत्यर्थः । शात्रवक्रियां दर्शयति यस्त्वमिति ॥५॥ इच्छसीति । इच्छायां हेतुमाह-मत्कृत इति । मत्परिग्रहार्थमित्यर्थः । दाक्य पुनराह लोभादिति । लोभो मल्लाभेच्छा ॥६॥७॥ त्वद्रक्षणं विहाय कथं गमिष्यामीत्यवाह-किं हीति । यो रामः प्रधान न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् । तमुवाच ततस्तत्र कुपिता जनकात्मजा ॥४॥ सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् । यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ॥५॥ इच्छसि त्वं विनश्यन्तं राम लक्ष्मण मत्कृते । लोभान्मम कृते नूनं नानुगच्छसि राघवम् ॥६॥ व्यसनं ते प्रियं मन्ये स्नेहो भ्रातार नास्ति ते । तेन तिष्ठसि विस्रब्धस्तमपश्यन महाद्युतिम् ॥७॥ किं हि संशयमापन्ने तस्मिन्निह मया भवेत्। कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ॥ ८॥ इति वाणां वैदेही बाष्पशोकपरिप्लुताम् । अबवील्लक्ष्मणस्वस्तां सीतां मृगवधूमिव ॥९॥ पन्नगासुरगन्धर्वदेवमानुषराक्षसैः । अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ॥ १०॥ देवि देवमनुष्येषु गन्धर्वेषु पतत्त्रिषु । राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ॥ ११॥ दानवेषु च घोरेषु न स विद्येत शोभने । यो राम प्रतियुद्धयेत समरे वासवोपमम् ॥ १२॥ यस्य सः यत्प्रधानः त्वमिहागतः तस्मिन् रामे । संशयं प्राणसंशयमापन्ने सति इहाश्रमपदे तिष्ठन्त्या मया कि कार्यम् । न किमपीत्यर्थः ॥८-१२॥ चातुराज्ञाय शासनमिति । अप्रमत्तेन ते भाव्यमित्यादिरूपम् ॥४॥५॥मत्कृते मदर्थम् ॥६॥ विनब्धः निश्चिन्तः ॥७॥ त्वद्रक्षणं विहाय कथं गमिष्यामी त्यत्राह-किं हीति । यत्प्रधानस्त्वमिहागतः यो रामः प्रधानं यस्य सः यत्प्रधानः तस्मिन रामे संशयं प्राणसंशयम् आपने प्राप्ते सति इहाश्रमे तिष्ठन्त्या मया किं कर्तव्यम्, न किमपि मद्रक्षणेन प्रयोजनं नास्ति, श्रीराम विना अहं क्षणमपि न जीविष्यामीति भावः ॥८-१५ ॥ स०-संकाय सम्पमाक्षसहस्तमापने इति वा । हिसंशयम् गतकार्य यथा भवति तथा तस्मिन् रामे भापत् न । यतोऽहम् ई साक्षालक्ष्मीः ततोमया आपत् प्राहेति शेषः । नभवेदिति मानसिको भावोपि शेयः॥८॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy