SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अप्रमत्तेनेति । सीतया हेतुभूतया आश्रमस्थेन ते त्वया अप्रमत्तेन भाव्यम्, आश्रमस्थोऽप्रमत्तः सन् सीतारक्षणं कुर्वित्यर्थः । पृषतं मृगम् ॥ ४८ ॥ ४९ ॥ प्रदक्षिणेन अत्यन्तसमर्थेन। जटायुषेति सहार्थे तृतीया । "वृद्धो यूना" इति ज्ञापकात् । मैथिलीं परिगृह्य स्ववशीकृत्य सर्वतः शङ्कित एव प्रतिक्षणमति शङ्कयेवाप्रमत्तो भवेत्यन्वयः । अत्र पञ्चाशच्छ्लोकाः ॥ ५० ॥ इति श्रीगोविन्द ० श्रीरामा० रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ४८ ॥ यावत्ष्टषतमेकेन सायकेन निहन्म्यहम् । हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ॥ ४९ ॥ प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण । भवाप्रमत्तः परिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः ॥ ५० ॥ इत्यार्षे श्रीरामायणे श्रीमदारण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥ १ ॥ ततख्यवनतं चापमादाया त्मविभूषणम् । आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥ २ ॥ तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात्पुनः सन्दर्शनेऽभवत् । बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ॥ ३ ॥ अजानन्निव यो मायामृगं कार्यान्तरैकदृक । अनुसृत्य जघानाशु तं लीलामानुषं भजे ॥ अथ मारीचवधः- तथा त्वित्यादिना । त्सरुः खड्गमुष्टिः । "त्सरुः खङ्गादिमुष्टिः स्यात् " इत्यमरः ॥ १ ॥ व्यवनतं त्रिषु स्थलेष्ववनतम् शार्ङ्गमित्यर्थः । आत्मविभूषणम् आत्मालङ्कारम् । कलापौ द्वौ द्वौ तूणीरौ "कलापो भूषणे बड़े तूणीरे संहतेपि च" इत्यमरः ॥ २ ॥ वञ्चयानः वञ्चयमानः । अनित्यो मुमागमः । सन्दर्शने दृष्टिविषये अभवत् स्थितः । मीति भावः ॥४७॥ सीतया हेतुभूतया ते त्वया आश्रमस्थेनापि त्वया अप्रमतेन भाग्यम्, आश्रमेऽप्रमत्तः सन् सीताया रक्षणं कुर्वित्यर्थः । पृषतं धर्म आदायेत्यत्र सन्ध्यभाव आर्थः ॥ ४८ ॥ ४९ ॥ प्रदक्षिणेन प्रकर्षेण दक्षिणः समर्थः तेन पक्षिणा जटायुषा सह अनुकूलेनेति वा । प्रदक्षिणं सर्वत एव, सर्वदिग्वतिराक्षसादिभ्य | इत्यर्थः । शङ्कितस्सन अप्रमत्तो भवेति शेषः ॥ ५० ॥ इति श्रीमहेश्वरतीर्थविर० श्री रामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ॥४३॥ तथेति । त्सरुः खङ्गमुष्टिः । असिकण्ठ इति यावत् ॥ १ ॥ व्यवनतं शार्ङ्गम् । आत्मविभूषणं चापस्य वीरालङ्कारत्वादिति भावः । कलापो तूणीरे । उदद्मविक्रमः मुगजिघृक्षया त्वरितपदविन्यासः ॥ २ ॥ सन्दर्शनेऽभवत् दृष्टिविषयोऽभवत् ॥ ३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy