________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalascagarsun Gyanmandie
बा.रा.म. १०४०
टो.आ.का. स०४
ल्यवभाव आषः ॥ ४२ ॥ अविगण्य अविचार्य, पापमिति शेषः।जीवलोके भूलोके । जरां जीर्णताम् । इति वातापिमत्रवीदिति पूर्वेणान्वयः ॥ ४३ ॥ तदिति रक्षःशब्दाभिप्रायेण नपुंसकत्वम् । आतिमन्येत अतिकामेत् । मां गत इति । अगस्त्यो यथा अजरूपं वातापि लोकहितार्थ नाशित वान् तथाहमपि मृगरूपमेनं हनिष्यामीत्यर्थः ॥४४॥ सनद्धः धनुःकवचादिसन्नाइयुक्तः। यन्त्रितः व्याक्षेपान्तररहितः। अस्यामिति । अस्माकं यत्कृत्य
त्वयाऽविगण्य वातापे परिभूताः स्वतेजसा।जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः॥४३॥ तदेतन्न भवेद्रक्षो वातापिरिव लक्ष्मण।मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्। भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः॥४४॥ इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् । अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ॥४५॥ अहमेनं वधि ष्यामि ग्रहीष्याम्यपि वा मृगम् । यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ॥ ४६॥ पश्य लक्ष्मण वैदेही मृग
त्वचि गतस्टहाम् । त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ॥४७॥ मावश्यकं तत् सर्वमस्यामायत्तम् एतद्रक्षणप्रधानमित्यर्थः। एतन्मूलतया रावणवधादिकं कर्तव्यम् । इयं हि पूर्व वेदवतीभावे तथा सङ्कल्पितवती त्यपि सूचयति ॥ ४५ ॥ अहमिति । यावद्गच्छामि गमिष्यामि । “ यावत्पुरानिपातयोः" इति भविष्यदर्थे लट् ॥ १६ ॥ पश्येति । गतस्पृहां प्राप्त स्पृहाम् । प्रधानया प्रधानप्रयोजनभूतया न भविष्यति मरिष्यतीत्यर्थः । अत्र सीताप्रार्थितमेव प्रधानप्रयोजनम् , अन्यदानुषङ्गिकमित्यर्थः ॥४७॥ रूपम् । उत्स्मयित्वा ईपस्मित्वा ॥ ४२ ॥ अविगण्य अविचार्य, पापमिति शेषः ॥ ४३ ॥ एवं यो मद्विधमतिमन्येत तद्रक्षा मारीचा वातापिरिव न भवेत किमिति काकुः । वातापिरिव मारीचोपि वधाई एवेत्यर्थः । अतिमन्येत अतिक्रामेत मा मां गतः प्राप्तः अयं मारीच अगस्त्येन वातापिरिव हतो भवेदित्यन्वयः ॥४४॥ सन्नद्धः धनु कवचादिसन्नाहयुक्तो भव । मैथिली यत्नतो रक्ष । कुतः ? अस्यामिति । अस्माकं यत्कृत्यं तत्सर्वमस्यामायत्तं सीतारक्षणार्थमित्यर्थः ॥४५॥ तहिं त्वया करणीयं किमित्यत आह-अहमिति । अतः कारणान्मृगमानयितुं यावद्गच्छामि तावदिह सन्नद्धो भवेति पूर्वेण सम्बन्धः ॥ १६ ॥ प्रधानया श्रेष्ठया त्वचा उपलक्षित एष मृगो न भविष्यति, किन्तु रक्षोमायैव यद्यपि तथापि मृगत्वचि गतस्पृहां गता प्राप्ता स्पृहा यस्याः ताम् । वैदेहीं पश्येत्यन्वयः । यद्वा पश्येति मृगत्वचि गत स्पृहां वेदेहीं पश्य अत एव प्रधानया त्वचा हेतुभूतया एष मुगो न भविष्यति, मरिष्यतीत्यर्थः । मृगत्वचि सीतेच्छाया विद्यमानत्वान्मूगं हत्वा त्वचमेवानयिष्या
For Private And Personal use only