SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भ वन्यं धनं सारम् अतिप्रशस्तं भवति अपूर्वत्वात् अतो निवृत्तवनवासैरस्माभिर्वनादपूर्वधनतया पुरी नेतुमयं ग्रहीतव्य इति भावः ॥ ३२॥ अस्विटी .आ.कां. ॥१.३॥ दम् अथापि विचार्य कार्यमिति चेत्तत्राह-अर्थीति । अर्थी असन्निहितार्थापेक्षी । “अर्थाच्चासन्निहिते" इति इनिप्रत्ययः। सः येन अर्थकृत्येन अर्थ कार्येण हेतुना अविचारयन् संबजति सम्यग्गच्छति यदस्तुसौन्दर्यजातोपकारलोभेन पुरुषस्तत्साधने व्यग्रः प्रवर्तते तमेवार्थ प्राहुः । अर्थशास्त्रज्ञाः अर्थी येनार्थकृत्येन संवजत्यविचारयन् । तमर्थमर्थशास्त्रज्ञाःप्राहुराश्च लक्ष्मण ॥ ३३ ॥ एतस्य मृगरत्नस्य परायें काञ्चनत्वचि । उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३४॥ न कादली न प्रियकीन प्रवेणी नचाविकी। भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः॥ ३५॥ नीतिशास्त्रज्ञाः । अर्थ्याः अर्थादनपेताश्च । “ अर्योऽभिज्ञार्थशालिनोः" इत्यजयः। “धर्मपथ्यर्थन्यायादनपेते " इति यत्प्रत्ययः । यस्य गुणप्रीतः पुरुषः अभिनिविशते स एवार्थ इति नीतिशास्त्रज्ञा अर्थवन्तश्चाहुः । अयश्च तथाविध इति भावः ॥ ३३॥ एवं प्रयत्नसम्पायं वस्त्वयमेव मृग इत्यभिप्रायेणाह-एतस्येति । मृगरत्नस्य मृगश्रेष्ठस्य । परायें श्लाघ्ये । काञ्चनत्वचि काञ्चनसदृशत्वचि । पुँल्लिङ्गत्वमार्यम् ॥ ३४॥ पराध्यत्वं विवृणोति-नेति । कदल्येव कादली मृगविशेषः । तल्लक्षणमुक्तं वैजयन्त्याम्-" कदली तु बिले शेते मूदुसूक्ष्मोच्चकवरेः ।नीलाओौंमभिर्युक्ता सा विंशत्यडलायता । प्रियकी लोमभिर्युक्ता मृदुश्च मसृणैर्घनैः॥” इति। प्रवेणी आस्तरणविशेषः मृगविशेषो वा । अविरेव अविकः “अवेः कः" ॥ इति स्वार्थे कप्रत्ययः । तस्येयमाविकी तल्लोमनिर्मिता शाटीत्यर्थः । स्पर्शनेन मार्दवेन ॥ ३५ ॥ सङ्कल्पितं धनं सर्व तथैवाविर्भूतं सत् यथा शुक्रस्य निचयवर्द्धनं भवति तथैवेत्यर्थः । जनस्य सङ्कल्पितार्थाः शुक्रस्य कोशं पूरयन्तीति प्रसिद्धिः । यद्वा शुक्रस्य मनसा चिन्तितं सङ्कल्पितं सर्वधनं तथैवाविर्भूय यथा शुक्रस्य निचयवर्द्धनं भवति ॥ ३२ ॥ एवमस्तु, अथापि विचार्य कर्तव्यमिति चेन्नेत्याह-अर्थीति । अर्थयते प्रार्थयतीत्यर्थी, अपूर्ववस्तुकामः पुरुष इत्यर्थः । अविचारयन्नालोचनामकुर्वन् येनार्थकृत्येन अर्थसाधनेनोद्योगेन संवजति सम्पग्गच्छ्रतीत्यर्थः । अाः अर्थावन ॥१३॥ पता:, अर्थसम्पादनचतुरा इति यावत् । अर्थशास्त्रज्ञास्तमेवार्थ पाहुः-यवस्तु सौन्दर्यलोभेन पुरुषस्तत्साधने व्यनः प्रवर्तते स एवार्थः । अयंच मृगस्तथाविध इति । भावः ॥ ३३ ॥ पराध्ये अमूल्ये ॥ ३४ ॥ कदल्येव कादली मृदूच्चकर्युरनीलामरोममृगविशेषः । प्रियकी मृदूचमसूणधनरोममृगविशेषः । प्रियकी सुखस्पों व्याघ्र For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy