________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
जाम्बूनदमयेति स्वार्थे मयट् । नानारत्नमयं नानाबिन्दुप्रचुरम ॥२९॥ मांसहेतोरपि विनोदार्थ च राजानो मृगान् मन्ति, किं पुनरेवंविधविचित्रवस्तु लाभहेतोरिति भावः ॥३०॥ एतन्मृगरूपं महद्धनम् एतच्च वन एव संभवति तस्मादिदं व्यवसायेन स्वीकर्तव्यमित्यभिप्रायेणाह-धनानीति | मणिरत्नं मणिश्रेष्ठं सुवर्ण च मणिरत्नसुवर्णे ते येषु स्त इति मणिरत्नसुवर्णिनः मणयः सुवर्णानि च धातुषु भवन्तीति प्रसिद्धिः । तथाभूता विविधा -
मांसहेतोरपि मृगान् विहारार्थ च धन्विनः । नन्ति लक्ष्मण राजानो मृगयायां महावने ॥३०॥ धनानि व्यवसायेन विचीयन्ते महावने। धातवो विविधाश्चापि मणिरत्नसुवर्णिनः॥३१॥
तत्सारमखिलं नृणां धनं निचयवर्धनम् । मनसा चिन्तितं सर्व यथा शुक्रस्य लक्ष्मण ॥ ३२ ॥ धातवश्व धनानि करिमस्तकमुक्ताप्रभृतीनि महावने व्यवसायेन मृगयोोंगेन राजभिः विचीयन्ते संगृह्यन्ते । यद्वा धनानि व्यवसायेन मृगयोद्योगेन महावने विचीयन्ते । ननु कुतो वने धनसङ्ग्रहप्रसक्तिरित्यत्राह-धातव इति । यस्मादुक्तरूपा विविधा धातवः सन्ति तस्मादित्यर्थः ॥ ३१॥ तेषां धनानां सारं श्रेष्ठभूतम् । अखिलं धनं नृणां निचयवर्धनं कोशवर्धनं भवेत् । किमिव शुक्रस्य मनसा चिन्तितं सङ्कल्पितं वस्तुजातं तथैवावि शर्भय निचयवर्धनं यथा तद्वदित्यर्थः । यदा नृणां मनसा चिन्तितं वृथामनोरथकल्पितं सर्वे धनं यथा शुक्रस्य कोशं पूरयति तथेत्यर्थः। तदुक्तमुद्योग पर्वणि-" मनुष्येभ्यः समादत्ते शुक्रश्चिन्ताजितं धनम् ।" इति । यदा नृणां राजादिधनिनां कोशवर्धनं तत् वन्यं धनं सारं भवति जानपद्धनादपि कस्य नामानिरूप्योऽसौ-अनिरूप्यः इदमित्यमिति निरूपयितुमशक्यः॥२८॥२९॥ मांसहेतोरिति । किम्पुनरेवंविधलाभार्थमिति भावः । टी-मांसलामहेतोरपि विनोदाय व राजनो मृगान् साधारणभृगान् प्रन्ति, किम्पुनरेवविवरूपमिति भावः ॥ ३० ॥ एतन्मृगरूपं महाधनं वन एव सम्भवति तस्मादिदमत्यादरेण साह्यमित्याशयेनाह-धनानीति । मणि रत्नसुवर्णिनः मणिरत्नं मणिश्रेष्ठं सुवर्ण च हेममयेषु धातुषु सम्भवतः ते तथोक्ताः, वचादिमणिसुवर्णरजताद्याकाराः धातवः लक्षणया गैरिकादिधात्वाधारपर्वत प्रदेशा इत्यर्थः । धनानि विचित्रमृगादिरूपधनानि । व्यवसायेन उद्योगेन बने विचीयन्ते अन्विष्यन्ते । वन इत्युपलक्षणम् । यत्र कापि स्थितं वस्तु राज्ञा सरूप द्यत इति भावः ॥ ३१ ॥ तत तस्मात सारं श्रेष्ठमखिलं धनं शाखाविरुद्धोपायन सर्वदा सम्पादितं धनमित्यर्थः । निचयवर्द्धनं कोशवर्द्धनम् “उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः" इति न्यायेन शास्त्राविरुद्धोपायेन सम्पादितं द्रव्यं राज्ञा कोशगृहं पूरयतीति भावः । तत्र दृष्टान्तमाह-मनसेति । नृणां मनुष्याणां चिन्तित
स-तत वन्य धनं नृणां सार परेण्यम् । तत्र दृष्टान्तमाचष्टे, मनसा चिन्हित सर्व तत् वन्यं शुक्रस्य उशनसः यथा सारं तपेत्यर्थः । पपरसेनैव कूप निर्माय सूतजीवनकषुकत्वाणयुकस्पेति माषः ॥ ३२ ॥
For Private And Personal Use Only