SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Nadhana Kendra www kobatirth.org Acharya Shri Kalassagarsur Gyarmandir शिवं मनोहरम् । गच्छ प्राप्तहि ॥२४॥ २५॥ बलादपि करिष्यसि अनिच्छतापि त्वया सर्वथा अहमेतत्कार्य कारयिष्यामीत्यर्थः। विपक्षे बाधक। माह-राज्ञ इति ॥२६॥ कार्यकरणाकरणयोर्गुणदोषौ दर्शयति-आसाद्येति । तं रामम् । आसाद्य मृगरूपेण प्राप्य । जीवितस्य संशयः देवाजीवितं लभ्येतापि, मद्विरोधे तु जीवितहानिरेव स्यात् । प्रतिगृह्य निश्चित्य । अब कार्यद्वये । यत्ते पथ्यं तत्कुरु, मदुक्ताकरणे अवश्यं हननमित्यर्थः ॥२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४०॥ प्राप्य सीतामयुद्धेन वञ्चयित्वा तुराघवम् । लङ्का प्रति गमिष्यामि कृतकार्यः सह त्वया ॥२५॥न चेत् करोषि मारीच हन्मि त्वामहमद्य वै। एतत्कार्यमवश्यं मे बलादपि करिष्यसि । राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥२६॥आसाद्य तें जीवितसंशयस्ते मृत्युध्रुवो ह्यद्य मया विरुद्धय । एतद्यथावत्प्रतिगृह्य बुद्धया यदत्र पथ्यं कुरु तत्तथा त्वम् ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चत्वारिंशः सर्गः॥४०॥ आज्ञप्तोऽराजवद्वाक्यं प्रतिकूलं निशाचरः। अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् ॥ १॥ केनायमुपदिष्टस्ते विनाशः पापकर्मणा । सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥२॥ येन सर्वात्मना वयं प्रातिकूल्यं हितैषिणाम् । सर्वलोकानुकूलं तमाश्रये रघुनायकम् ॥ आज्ञप्त इत्यादि । अराजवत् यदा रामप्रातिकूल्ये प्रवृत्त स्तदैव राजत्वं गतमिति मुनेराशयः। यदा राजवत् राजाहे "तदहम्" इत्यहाथै वतिः। यद्वा राजवदिति पूर्वसर्गोक्तमौद्धत्य लक्ष्यते । वाक्यं वाक्यार्थानुष्ठान । मृगरूपमासाद्य त्वया गन्तव्यमित्येवंरूपं प्रतीत्यर्थः । यद्वा प्रतिकूलं वाक्यम् आज्ञप्तः चोदितः उक्त इत्यर्थः ॥ १॥ विनाशः विनाशोपायः॥२॥ मनोहरम् । मार्ग मृगरूपम्, गच्छ प्राप्नुहि ॥ २४ ॥ २५ ॥ बलादपि करिष्यसि अनिच्छतापि त्वया सर्वथा अहमेतत्कार्य कारयिष्यामीत्यर्थः। विपक्षे बाधकमाह-राज्ञ इति ॥ २६ ॥ तं राममासाद्य मृगरूपेण प्राप्य । जीवितसंशयः तव जीवितस्य संशयः। हानिलाभो सन्दिग्धौ पक्षे जीवितलाभोऽपि सम्भा व्यते, मदिरोधे तु जीवितहानिनिश्चितैव । अतस्त्वं बुद्धचा निश्चित्य यद्युक्तं तत्कुरुष्व ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्याया मारण्यकाण्डव्याख्यायां चत्वारिंशः सर्गः॥४०॥ आज्ञप्त इति । राजबढ़ाजाईम् । वाक्यं वाक्यानुष्ठानम् । रामलक्ष्मणावपवाह्य त्वयेत्यं करणीयमित्येवंरूपं प्रती त्यर्थः । रावणेनाज्ञप्तमारीचाः तस्य प्रतिकूलं वाक्यमब्रवीदिति सम्बन्धः । यद्वा राजवादतिशब्देन पूर्वसोक्तं रावणगतमौद्धत्वं लक्ष्यते । तदस्मिन्वाक्ये प्रवर्त १०६ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy