________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
R
4पी.
आ.रा.. ॥९६॥
सामान्यत उत्तमर्थ प्रकृत सङ्गमयति-त्वं त्विति । धर्म राजधर्मम् । मोहम् अज्ञानम् । दौरात्म्यात् दोर्जन्यात् ॥३४॥ तहि कथं मया वक्तव्यमित्यवाहगुणति । गुणदोषौ आत्मनि क्षेमं च न पृच्छामि किन्तु सम्प्रति मया तव तुभ्यं मयोक्तमेतावत् ॥ १५॥ किन्तदित्यवाह-अस्मिन्निति । कृत्ये कार्ये ।।
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः। अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ॥ १४॥ गुणदोषो न पृच्छामि क्षमं चात्मनि राक्षस । मयोक्तं तव चैतावत्सम्प्रत्यमितविक्रम ॥१५॥ अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि । शृणु तत्कर्म साहाय्ये यत्कार्य वचनान्मम ॥ १६ ॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ १७॥ प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि ॥१८॥ त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया। आनयनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ १९॥ अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर । हासीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्॥२०॥ तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः। अनु गच्छति सम्भ्रान्तः सौमित्रिरपिसौहृदात् ॥२१॥ अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् । आनयिष्यामि वैदेही सहस्राक्षः शचीमिव ॥२२॥ एवं कृत्वा विदं कार्य यथेष्टं गच्छ राक्षस । राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ॥२३॥ गच्छसौम्य शिवं मार्ग कार्यस्यास्य विवृद्धये ।अहं त्वाऽनुगमिष्यामि सरथो दण्डकावनम् ॥२४॥ शृण्विति साहाय्ये करणीये यत्कार्य तद्वचनं तद्विषयवचनं शृणु ॥ १६॥ प्रमुखे अग्रे ॥ १७॥ १८॥ किं तस्य प्रयोजनं तबाह-वामिति॥ १९ ॥ अपक्रान्त इति अनुरूपकम् । स्वार्थे कप्रत्ययः॥२०॥ पदवी मार्गम् ॥२१॥ अपक्रान्त इति । यथासुखं यत्रं विना ॥२२॥२३॥ मार्ग मृगसम्बन्धिरूपम् । धर्म राजधर्मम् ॥१॥ गुणदोषौ आत्मनि च कार्याकार्यक्षम युक्तं वा त्वां न पृच्छामि किन्तु एतावदेव मयोक्तम्॥१५॥ तत्किमत आह-अस्मिन्निति । अस्मिन् कार्ये विषये। भवत्कृत्यं साहाय्यमेव नत्वात्मनि गुणदोषचिन्तनम् अतस्त्वं साहाय्यं कर्तुमर्हसीति सम्बन्धः। साहाय्ये मम वचनात् यत्कर्म कार्यं तच्छृष्विति सम्बन्धः॥१६-२३॥शिवं
For Private And Personal Use Only