________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुखेन हर्तव्येत्यर्थः ॥ ५ ॥ ६ ॥ निश्चिता निश्चयरूपा । सेन्द्रैः किं पुनस्त्वयेति भावः ॥ ७ ॥ अपिचापृष्टोत्तरप्रलापस्तवासङ्गत इत्याह- दोषमिति कार्यनिश्वये विषये कौ गुणदोषौ तत्साधने कावुपायाविति पृष्टश्वेदुत्तरं वकुमर्हसि । नास्माकं तज्जिज्ञासा रातो नैवं वक्तुं युक्तमित्यर्थः ॥ ८ ॥ प्रसङ्गा द्वाजसन्निधौ विज्ञापन प्रक्रियां दर्शयति- सम्पृष्टेनेत्यादिना । विपश्चिता विदुषा । राजसेवा प्रकारज्ञेनेति यावत् । भूतिम् ऐश्वर्यम् ॥ ९ ॥ एवं वक्तृगुणा
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते । न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ७ ॥ दोषं गुणं वा सम्पृष्ट स्त्वमेवं वक्तुमर्हसि । अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ ८ ॥ सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता । उद्यताअलिना राज्ञे य इच्छेद्भूतिमात्मनः ॥ ९ ॥ वाक्यमप्रतिकूलं तु मृदुपूर्वे हितं शुभम् । उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ १० ॥ सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते । नाभिनन्दति तद्राजा मानार्हो मानवर्जि तम् ॥ ११ ॥ पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अमेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ॥ १२ ॥ hi तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् । धारयन्ति महात्मानो राजानः क्षणदाचर । तस्मात्सर्वास्वव स्थासु मान्याः पूज्याश्च पार्थिवाः ॥ १३ ॥
Acharya Shri Kailassagarsun Gyanmandir
उक्ताः, अथ वचनप्रकारमाह-वाक्यमिति । उपचारेण युक्तं बहुमानेन पुरस्कृतम्, हितमप्युपचारपूर्व वक्तव्यमित्यर्थः ॥ १० ॥ प्रकारान्तरेण न वक्तव्य मित्याह - सावमर्दमिति । सावमर्दी तिरस्कारसहितम् ॥ ११ ॥ पञ्च रूपाणि अग्न्यादिपञ्चकस्य यानि रूपाणि तानि धारयन्तीत्यर्थः ॥ १२ ॥ तान्ये वाह - औष्ण्यमिति । औष्ण्यं तैक्ष्ण्यम् । सौम्यम् आह्लादकरत्वम् । दण्डं दुष्टनिग्रहम् । मान्याः मनसा पूज्याः । पूज्याः वाचा बहुमन्तव्याः ॥ १३ ॥ [प्राकृतस्त्रीवाक्यमपि श्रुत्वा राज्यादिकं त्यक्त्वा वनं गतः तस्य सीता भार्या त्ववश्यं मया आहर्तव्येति सम्बन्धः । सीताहरणाभावे स्वस्य रामहस्तान्मरणं न भवि च्यतीति हतम् ॥ ५-७ || कार्यस्य विनिश्वये विषये दोषं गुणं वा अपायं वा उपायं वा संपृष्टस्त्वेवम् उत्तरं वकुमईसि नास्माकं तजिज्ञासा अतो नैवं वकुं सुयुक्तमित्यर्थः ॥ ८ ॥ ९ ॥ उपचारेण युक्तं बहुमान पुरस्सरम् || १० || मानवर्जितं सम्मानशून्यम्, प्रत्युक्त सावमर्दे तिरस्कारसहितम् ॥ ११ ॥ रूपाणि अंशान् । अप्रेरोष्ण्यं सौम्यं शिशिरत्वं प्रकृते दयार्द्रचितत्वमित्यर्थः । दण्डं दुष्टनिग्रहकारित्वम् ॥ १२ ॥ १३ ॥
For Private And Personal Use Only