________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
था.रा.म.
॥१५॥
| यस्य तत्त्वं समुद्दिष्टं माभिजानन्ति दुर्जनाः। तमहं शिरसा वन्दे रघुनाथं गुणार्णवम्॥ मारीचेन वित्यादि । क्षमं निवर्तनसमर्थम् । युक्त कार्यम्॥३॥ टी.आ.कां. पथ्यम् अनपायम् । हितं सुखावहम् । अयुक्तम् अयुक्तार्थम् ॥२॥ अयुक्तार्थ राजचित्तप्रतिकूलत्वादनुचितार्थम् । उप्तं निक्षिप्तम् ॥ ३॥ रामस्य संयुगे। विषये मां भेत्तुं सीतापहरणोपायायुद्धे मां प्रवर्तयितुं त्वद्वाक्यैर्न शक्यम् । तत्र हेतुत्रयं पापेत्यादि । पापशीलत्वान्मूर्खत्वाद्विशेषतो मानुषत्वाच्च । तेन ।
मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः। उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥१॥ तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः। अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥२॥ यत्किलैतदयुक्तार्थ मारीच मयि कथ्यते । वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे॥३॥ त्वद्वाक्यैर्न तु मां शक्यं भेत्तुंरामस्य संयुगे। पापशीलस्य मूर्खस्य मानुषस्य विशेषतः॥४॥ यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा। स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥५॥
अवश्यं तु मया तस्य संयुगे खरघातिनः। प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ॥६॥ नाहं योद्धुमर्हः किन्तु तद्भार्यापहरणमेव तदपकाराय प्रतिक्रियेति भावः ॥ ४॥ मूर्खत्वमुपपादयति-यदिति । प्राकृतम् असारम् । स्त्रीवाक्यं कैकेयी! वाक्यम् । एकपदे उत्तरक्षणे । प्राणैः प्राणेभ्यः। प्रियतरा तत्प्राणापहरणादपि वरं तस्त्रियोऽपहरणामिति भावः । तव सन्निधौ सति हर्तव्या त्वत्सनिधि मारीचेनेति । क्षमं निवर्तनसमर्थम् । युक्तं युक्तियुक्तम् न्याय्यं वा ॥ टी-मनुकामः आसन्नमरणः ॥ १ ॥ पथ्यहितवकारं पथ्यम् अनपायम् । हितं सुखावहम् ॥२॥ अयुक्तार्थ राजप्रतिकूलत्वादनुचितार्थम् ॥३॥ पापशीलत्वादिविशेषणयुक्तस्य रामस्य पौरुषमिति शेषः । त्वद्वाक्येरेव भेत्तुं मया न शक्यमिति काकुः ॥1 टी-संयुगे रामस्य पौरुवं मया भेत्तुं शक्यमेवेत्यर्थः ॥ ४ ॥ प्राकृतमसारं स्त्रीवाक्यं कैकेयीवाक्यम् । एकपदे एकपादविन्यासेनैव अतित्वरया गत इत्यर्थः । प्राणैः प्राणेभ्यः। मारीचेनेत्यादेः हर्तव्या तव सन्निधावित्यन्तस्य ग्रन्थस्य वास्तवार्थेऽयमर्थः-तद्वाक्यं सीतां नाहरेति वाक्यं न जग्राह तं प्रति परुषवाक्यं चाब्रवीत् । तदेवाह यदिति । हे मारीच ! मयि सीताहरणकाम इत्यर्यः । अयुक्तार्थमयोग्यार्थ वाक्यं निष्फलम् । इदं चेयुक्तमित्याह त्वदिति । मानुषस्य मूर्खस्य विशेषतः पाप ...
॥१५॥ शीलस्य । द्वितीयार्थे षष्ठी । भेत्तुं शक्यम् । रामस्य रामं तु मया भेन्तुं न शक्यमिति यदुक्तं त्वद्वाक्यस्तत्सत्यमेवेत्यर्थः। किन्तु य इति । यः परमकरुणाशालितया
For Private And Personal Use Only