________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagasun Gyarmandie
लोकन्यायमाह-बहव इति । युक्ताः सम्यगाचाराः धर्मम् अनुष्ठिताः अनुष्ठितवन्तः साधवोपि परेपामपराधेन विनष्टाः असत्संसर्गदोषेणेत्यर्थः ॥२०॥ सामान्यन्यायं स्वविषये दर्शयति-सोहमिति । सोहं साधुभूतोहम् । यत्ते क्षमं यत्त्वया कर्तुं शक्यं तत् त्वमेव कुरु । अहं त्वा त्वां नानुयामि अनर्थस्य निश्चितत्वादित्यर्थः ॥२१॥ तत्र हेतुमाह-रामश्च हीति । हिः प्रसिद्धौ । अपिः कामचारकरणे।“अपिः सम्भावनाप्रश्नशङ्कागाँसमुच्चये।
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः॥२०॥ सोऽहं तवापराधेन विनश्येयं निशाचर । कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामिह ॥२१॥ रामश्च हि महातेजा महासत्त्वो महाबलः। अपि राक्षसलोकम्य न भवेदन्तकोपि सः॥२२॥ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्व रामेणाक्लिष्टकर्मणा ॥ २३॥ अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः॥२४॥ इदं वचो बन्धुहितार्थिना मया पथोच्यमानं यदि नाभिपत्स्यसे । सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोद्य रामेण शरैरजिह्मगैः ॥२५॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनचत्वारिंशः सर्गः ॐ ॥ ३९॥ Vतथा युक्तपदार्थेषु कामचारप्रियासु च" इति विश्वः । द्वितीयोऽपिशब्दः अवधारणे ॥२२ ॥ खरखधेन नाग्रहः कार्य इत्याह-यदीति । सीतापरिभव
करणेन शूर्पणखा विरूपिता खरश्चातिवृत्तो रामस्योपरि गत्वा प्रहारोद्युक्तो रामेण हतः अत्र रामस्य व्यतिक्रमः कः?न कोपीत्यर्थः ॥२३॥२४॥ अवश्य वक्तव्यमर्थ पुननिष्कृष्य दर्शयति-इमिति । यथोच्यमानं परमार्थत उच्यमानम् । नाभिपत्स्यसे नाङ्गीकरोपि ॥२५॥ इति श्रीगोविन्दराजविरचिते
श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥३९॥ Mयुक्ताः नियमितचित्ताः । सपरिच्छदाः सपरिवाराः ॥२०॥ क्षमं कुरु सीताहरणोपायं कुरु ॥२१॥ महातेजाः महापराक्रमः । महासत्वः महत् सत्त्वं बुद्धिबलं यस्य सM
महासत्त्वः । महाबलः महत् बलं शरीरबलं यस्य स महाबलः । एको हिशब्दः प्रसिद्धौ। अपरोऽवधारणे । राक्षसलोकस्यान्तको न भवेदपि हि अन्तको भवेदेवे त्यर्थः ॥ २२ ॥ अतिवृत्तः वृत्तमतिक्रान्तः शूर्पणखाहेतोः सीताइननप्रयत्नदोषविरहितशर्पणखाहेतोः अतिवृत्तः शूर्पणखावाक्य श्रवणजनितरोषवशादामहननार्थ मुद्युक्तः खरः हतः ॥ २३ ॥ अव रामस्य को व्यतिक्रमः, न कोऽपीत्यर्थः ॥ २४ ॥ नाभिपत्स्यसे नाङ्गीकरिष्यसि ॥ २५ ॥ इति श्रीमहेन्वरतीर्थविरचितायो श्रीरामा यणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ *सर्गश्रवणफलम् । स्कान्द-"मारीचोक्तिमुपश्रुत्य गुरुमान् भवति क्षिती ॥ " इति ।
For Private And Personal Use Only