________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥९४॥AL
.भ..इत्यर्थः। युक्तः उचिताचरणः । तापसः तपोनिष्ठः । समाहितः नियतमनस्कः॥१३॥ वृक्षेवृक्षे इति ।"हृदयानापयातोसि दिक्षु सर्वासु दृश्यसे।' 'रामभूतं टी.आ.का.
जगभूद्रामे राज्यं प्रशासति ।" इत्यादाविव शोकरागभयादिजनितनिरन्तरसन्तन्यमानचिन्तासक्तस्य साक्षात्कारोपपत्तिः । भयस्योत्तरोत्तरभूमिकाभिस०३९ प्रायेण दर्शनस्याप्युत्तरोत्तरदशेत्यनुसन्धेयम् ॥ १४ ॥ तनि०-चीरकृष्णाजिनाम्बरमिति गृहीतधनुषमिति च शुभाश्रयसंशीलने पीताम्बरशङ्खचकादियोग इव वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्वरम् । गृहीतधनुषं रामं पाशहस्तमिवान्त कम् ॥१४॥ अपि रामसहस्राणि भीतः पश्यामि रावण । रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥ १५॥ राममेव हि पश्यामि रहिते राक्षसाधिप । दृष्ट्वा स्वप्नगतं राममुद्धमामि विचेतनः ॥१६॥ रकारादीनि नामानि रामत्रस्तस्य रावण । रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे ॥१७॥ अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् । बलिं वा नमुचिं वापि हन्याद्धि रघु
नन्दनः ॥ १८॥रणे रामेण युद्धयस्व क्षमा वा कुरु राक्षस । न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ॥१९॥ ज्ञानालम्बनयोगो व्यज्यते ॥ १४ ॥ एकस्यैव रामस्य प्रतिवृक्षं गत्वा गत्वा दृश्यमानत्वमुच्यत इति भ्रमं वारयति-अपीति । न केवलं प्रतिवृक्षं किंतु सर्वत्र प्रदेश इत्याह रामभूतमिति ॥ १५॥ नेदं रामस्य मायाकृतमित्याह-राममेवेति । रहिते रामरहिते प्रदेशे । न केवलं जाग्रहशायामेव प्रतीतोय किंतु स्वमदशायामपीत्याइ दृष्ट्वेति । उदमामि भ्रान्तं प्रलापं करोमीत्यर्थः॥ १६॥ न केवलं दर्शनदशायां भीतिकार्यम् श्रवणदशायामपीत्याहसरकारादीनीति । कारप्रत्ययश्चान्दसः। रेफादीनि यानि रबादीनि नामानि तेषामाद्याक्षरोच्चारणे राममेवायमब्रवीदिति चासो जायते। द्वितीयाक्षरोच्चारणे
शनैः स निवर्तत इति भावः ॥ १७॥ १८॥ यदि वैरनिर्यातनं कर्तुमिच्छसि तदा रामेण रणे यद्धयस्व । यद्वा क्षमा करु खरादिवघं सहस्व सर्वथा चौर । Mव्यापारो न कर्तव्य इति भावः। हितं चाह न त इति । रामकथा रामप्रसङ्गोपि । ते त्वया न कार्या यदि मां द्रष्टुमिच्छसि जीवितुमिच्छसीत्यर्थः ॥१९॥ प्रवाजितः कृतसकलदुष्कृतपरित्याग इत्यर्थः ॥ १३-१५ ॥ रहिते रामरहिते वन इत्यर्थः ॥ १६ ॥रकारादीनि रेफादीनीति यावत् । टी०-कारप्रत्ययश्चान्दसः । तेषामायो भारणे राममेवा बबीतीति सन्त्रासो जायते ताहितीयाक्षरोचारणे शनैः सन्त्रासोऽपगच्छतीति भावः ॥ १७॥१८॥ रामकथा न कार्यो न कथनीया, मत्पुरत इति शेषः ॥ १९॥
For Private And Personal Use Only