SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मिति । तथाकृतः उक्तरीत्या प्राणसङ्कटं प्रापितोपि । अनिर्विण्णः निर्वेदरहितः, निर्वेदो निष्फलत्वधीः । अप्राप्ततद्विषयप्रवृत्तिवैराग्य इत्यर्थः ॥ २ ॥ दीप्तजिह्व इत्यादिविशेषणत्रयेण निरपेक्षहननसाधनभूयस्त्वं विवक्ष्यते ॥ ३७ ॥ रामपराक्रमं जानन्नपि कथं तत्परिभवायोयुक्त इत्यत्राह - तापसोऽय मिति । ज्ञात्वेति तापसत्वादहिंसापरेण भवितव्यमिति विश्वस्येत्यर्थः । एवंविधदुव्यापारप्रयोजकं वैरस्मरणम् अकृता अप्रवर्तिता प्रज्ञा बुद्धिर्यस्य दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः । व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥ ३ ॥ अग्रिहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण । अत्यन्त घोरो व्यचरं तापसान् सम्प्रधर्षयन् ॥ ४ ॥ निहत्य दण्डकारण्ये तापसान् धर्मचारिणः । रुधिराणि पिवंस्तेषां तथा मांसानि भक्षयन् ॥ ५ ॥ ऋषिमांसाशनः क्रूरवासयन वनगोचरान् । तथा रुधिरमत्तोहं विचरन धर्मदूषकः ॥ ६ ॥ आसादयं तदा रामं तापसं धर्मचारिणम् । वैदेहीं च महाभागां लक्ष्मणं च महारथम् ॥ ७ ॥ तापसं नियताहारं सर्वभूतहिते रतम् । सोहं वनगतं रामं परिभूय महाबलम् ॥ ८॥ तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् । अभ्यधावं हि संक्रुद्धस्तीक्ष्णशृङ्गी मृगाकृतिः ॥ ९ ॥ जिघांसुर कृतप्रज्ञस्तं प्रहारमनुस्मरन् । तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः । विकृष्य बलवच्चापं सुपर्णानिलनिस्वनाः ॥ १० ॥ ते बाणा वज्रसङ्काशाः मुमुक्ता रक्तभोजनाः । आजग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः ॥ ११ ॥ पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा । समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥ १२ ॥ शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम् । इह प्रत्राजितो युक्तस्तापसोऽहं समाहितः ॥ १३ ॥ सः ॥ ८-१० ॥ सर्वे इति प्रयोगयोगपद्यार्थमुक्तम्। सन्नतपर्वणः सन्नतपर्वणः ॥ ११ ॥ दृष्टं भयं येन करणेन स दृष्टभयः । उद्भ्रान्तः पलाय्य गतः । मुक्त इति पलायितेषु रामशराप्रवृत्तेरिति भावः । रामस्येति पदं काकाङ्क्षिन्यायात् पूर्वोत्तरपदय एवेति । यतः मया रामस्य शरः पुरा दृष्टभयः ततः रामस्य पराक्रमज्ञोऽहं समुद्रान्तः सन् मुक्तः । रामपराक्रमाज्ञौ तावुभौ राक्षसौ तु हतावित्यन्वयः ॥ १२ ॥ प्रत्राजितः कृतसकलदुर्वृतपरित्याग प्रवृत्तौ निष्फलत्व धीरहितः कृतः पुनरपि श्रीराम निरसनाय प्रवृत्तोहमिति यावत् । यद्वा तथाकृतः पूर्व प्राणसङ्कयं प्रापितोपि अहमनिर्विण्णः अमातरामविषय प्रवृत्तिवैराग्यः ॥ २-६॥ टी०-तापसोयमिति ज्ञात्वा तापसवेषधार्ययं मां किं करिष्यतीति ज्ञात्वा ॥ ७९ ॥ विरिति तं प्रहारं पूर्वप्रहारम् ॥ १० ॥ सन्नतपर्वण इति प्रथमार्थे द्वितीया ॥ ११॥ १२ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy