________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥१३॥
तदारान् त्यक्तदारान् । अशरणान् रक्षकरहितान् ॥ २८॥ प्रदग्धभवनां प्रकर्षेण दुग्धगृहाम् ॥ २९॥ एवं दृष्टदोषमुपपाद्यादृष्टदोषं दर्शयति- टी.आ.कॉ. परदारेति। "परिग्रहः कलचे स्यात्" इति शाश्वतः । जात्यभिप्रायेणेकवचनम् । रामविप्रियं रामापराधम् ॥ ३०-३२॥ प्रसह्य बलात्कृत्य, मामना । हृतदारान् सदारांश्च दश विद्रवतो दिशः। हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान् ॥२८॥ शरजालपरिक्षिप्ता मग्निज्वालासमावृताम् । प्रदग्धभवना लङ्का द्रक्ष्यसि त्वं न संशयः॥२९॥परदाराभिमर्शात्तु नान्यत् पापतरं महत् । प्रमदानां सहस्राणि तव राजन परिग्रहः ॥ ३० ॥ भव स्वदारनिरतः स्वकुलं रक्ष राक्षस । मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ॥३१॥ * कलत्राणि च सौम्यानि मित्रवग तथैव च । यदीच्छास चिरं भोक्तुं मा कृथा राम विप्रियम् ॥ ३२॥ निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धूर्षयिष्यसि । गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः॥ ३३ ॥ इत्याचे श्रीरामा० वाल्मी• आदि० श्रीमदारण्यकाण्डे अष्टात्रिंशः सर्गः ॥३८॥
एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे। इदानीमपि यदवृत्तं तच्छृणुष्व निरुत्तरम् ॥ १ ॥
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः। सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥२॥ हत्येत्यर्थः । रामशरण आत्तम् आकृष्टम्, नाशितमिति यावत् । तादृशं जीवितं यस्य सः ॥ ३३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टात्रिंशः सर्गः॥ ३८॥ 2. अपराधविहीनेषु नापराधं करोति यः । दयालुं सर्वभूतेषु तमहं राममाश्रये ॥ एवमित्यादि । इदानीमपि प्रौढावस्थायामपि । यद्वृत्तं मद्विषयमभूत्। तत् निरुत्तरं शृणुष्व मध्ये वाक्यविच्छेदाकरणेन शृण्वित्यर्थः । यदुत्तरमिति पाठे-यत्सर्वान्तोत्तरं तदतिरिक्तासाध्यं तदपि वित्यर्थः॥१॥राक्षसाभ्या नागनिग्रहसमये यथा मत्स्याच हन्यन्ते तद्वदित्यर्थः ॥ २६ ॥ २७ ॥ हृतदारान् परिहतदारान, त्यक्तदारानिति यावत ॥ २४ ॥ २९ ॥ परिग्रहः जात्यभिप्रायेणैकी वचनम् ॥ ३०-३३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो अष्टाविंशः सर्गः ॥ ३८ ॥ एवमिति । निरन्तर मिति पाठे मध्ये वाक्यविच्छेदाकरणेनेत्यर्थः ॥ १ ॥ अनिर्विण्णः तथाकुतः । पूर्व रामेण प्राणसङ्कटं प्रापितोप्यहमानविण्णः कृतः पुनरपि श्रीरामनिरसनविषयक • सीताहेतोः समप्राणि विद्रवियन्ति भीतवत् । आत्मनश्च दशग्रीव पुरस्यान्तःपुरस्व च ॥ रक्षसां च विनाशाय मैथिलीमानयिष्यति । मा नाशय वं राज्यं च जीवितं चेष्टमात्मनः ॥ इत्यधिकः पाठः।
For Private And Personal Use Only