________________
Shri Mahawan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
नेच्छता अनिच्छता । नशब्दस्य “सुप्सुपा" इति समासः। अनिच्छाहेतुर्न ज्ञायते स्वयं हन्तुं समर्थ एवेति भावः। अचेतनः निश्चेष्टः मूच्छितो वा ॥२०॥२१॥ तनि०-नेच्छता अनिच्छता एतच्च रक्षणं केवलकृपामूलम् ॥ २० ॥ २३ ॥ निपातिताः हताः ॥ २२ ॥ २३ ॥ कीडा लीला, रतिः। भोगः तयोविधिः क्रमः तज्ज्ञानां तत्र सक्तानामित्यर्थः । समाजः सभा । अनर्थ दुःखम् । सन्तापः तत्कार्यम् । आहरिष्यसि यबेन संपादयिष्यसि ॥२४॥
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः । रामस्य शरवेगेन निरस्तोऽहमचेतनः ॥२०॥ पातितोऽहं तदा तेन गम्भीरे सागराम्भसि । प्राप्य संज्ञा चिरात्तात लङ्कां प्रति गतः पुरीम् ॥ २१॥ एवमस्मि तदा मुक्तः सहायास्तु निपातिताः । अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा ॥ २२ ॥ तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् । करि प्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण ॥२३॥ क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम् । रक्षसां चैव सन्तापमनर्थ चाहरिष्यसि ॥ २४ ॥ हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम् । द्रक्ष्यसि त्वं पुरीं लङ्का विनष्टां मैथिलीकृते ॥२५॥ अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् । परपापैर्विनश्यन्ति मत्स्या नागदे यथा
॥ २६ ॥ दिव्यचन्दनदिग्धाङ्गान दिव्याभरणभूषितान्। द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु राक्षसान ॥ २७॥ हयोति “ हादि धनिनां वासः प्रासादो देवभूभुजाम्" इत्यमरः। सम्बाधां निबिडाम् रत्नविभूषितां गृहद्वारादौ ॥२५॥ त्वदोषेण सकलराक्षस क्षयो भविष्यतीति दर्शयिष्यन् तदर्थमसत्सङ्गदोषन्यायारूढमुपवर्णयति-अकुर्वन्तोपीति । शुचयः परिशुद्धाः, अपापा इत्यर्थः । पापान्यकुर्वन्तोपि । पापसंश्रयात् पापपुरुषसंसर्गात् परपापविनश्यन्ति । यथा नागहदे सर्पदे नागनिग्रहाय प्रवृत्तेन मत्स्या अपि तत्सहवासाद्धन्यन्ते तददित्यर्थः ॥२६॥ | दिव्येति । तव दोपात्तु तव दोषादेव ॥२७॥ पर्यन्ते समुद्र क्षिप्तः॥१९॥ नेच्छता अनिच्छता,एतच्च रक्षणं केवलकृषामूलम् । निरस्तस्सन अचेतनोस्मिाटी० एवमिति । सहायाः सहायभूताः एते सर्वे रामेण निपातिताः।२०-२३॥ क्रीडेति । आहरिप्यसि प्रयत्नेन सम्पादयिष्यसि ॥ २४॥२५॥ पापसंश्रयात् पापात्मसङ्गतः । परपापैः परेषा पापात्मनो पानिमित्तेः । नागहवे सर्पयुक्तहदे गरुडेन ।
For Private And Personal Use Only