________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.कां. स० ३५
पा.रा.भ. निषादंदशं सर्वं हत्वा शिष्टपालनादुष्टनिग्रहाचातुलं प्रहर्ष लेभ इति भावः ॥ ३२ ॥३३॥ तेनैव भक्षणजन्यनेत्यर्थः ॥ ३४॥ अयोजालानि अयोनिर्मित ॥४॥ जालकानि । निर्मथ्य ध्वंसयित्वा तदन्तर्वतिरत्नमयं गृहं भित्त्वा ततः तदन्तरे गुप्तममृतं महेन्द्रभवनादाजहार ॥३५॥ सुपर्णकृतलक्षणं सुपर्णेन गरुडेन
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः । अमृतानयनार्थं वै चकार मतिमान मतिम् ॥ ३४ ॥ अयोजालानि निर्मथ्य भित्त्वा रत्नमयं गृहम् । महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ॥ ३५॥ तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् । नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ ३६ ॥ तं तु गत्वा परं पारं समुद्रस्य नदीपतः । ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे॥ ३७॥ तत्र कृष्णाजिनधरं जटावल्कलधारिणम् । ददर्श नियताहारं मारीचं नाम राक्षसम् ॥३८॥ स रावणः समागम्य विधिवत्तेन रक्षसा। मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥३९॥ तं स्वयं पूजयित्वा तु भोजनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥४०॥ कच्चित् सुकुशलं राजन् लङ्कायां राक्षसेश्वर। केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः॥४१॥ एवमुक्तो महातेजा मारीचेन स रावणः। तं तु पश्चादिदं
वाक्यमब्रवीद्राक्यकोविदः ॥ ४२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीपदारण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३५॥ कृतं भनेकशासत्वरूपं लक्षणं चिह्न यस्य ।। ३६ ॥३७॥ तत्रेति । कृष्णाजिनेत्यादिना रामभक्ततया जनितवैराग्यचिह्नोक्तिः ॥३८॥ समागम्य मारीचं प्राप्य । सर्वकामैः सर्वभोग्यवस्तुभिः अर्चितो बभूव ॥३९॥४०॥ एवं तूर्णम् एकाकितया शीघ्रम् ॥४३॥ एवमिति । इदम् उत्तरस वक्ष्यमाणम् ॥१२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥ नेनैव प्रहर्षेण अभिमतभक्षणनिषादनाशमुनिजनरक्षणजनितसन्तोषेणेत्यर्थः ॥३४॥ अयोजालानि अयश्कलनिर्मिनानि जालानि रत्नमयगेहोपरि पक्षिराज
प्रवेशपरिहाराय बद्धानि निर्मथ्य भित्वा रत्नग्रहं च भित्त्वा अमृतमाजहारेत्पन्वयः ॥ ५५ ॥ सुपर्णकृतलक्षणं शाखाभङ्गम.पं लक्षणं चिहं यस्य तं तथोक्तम् । Lalu ३६-४१॥ पश्चाविचम् उत्तरसर्गे वक्ष्यमाणम् ॥४२॥ इति श्रीमहेश्वरती० श्रीरामायणनवदीपिकारुपायामारण्यकाण्डप्याम्पायो पात्रिंशः सर्गः ॥२५॥
च
॥८८॥
For Private And Personal Use Only