________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तथा प्रवदशब्दयोः । प्रस्तरं समूह निचयं समूहम् । प्रसवाणि प्रवणानि निगनिन्यर्थः । गाढानि निविड़ानि । एवं बहुधा सागरानूपवर्णनं पुनर्बहुदूर मार्गगमनप्रयासेन मारीचोपदेशानिवाध्यवसायविशेपं व्यत्रयितुम् ।।२१-२६॥ यस्य वाहनप्रभावाप्यपरिच्छेद्यस्तेन रामण विरुणद्धि रावणो मूढ इति परिहसन्नाह-तत्रापश्यदित्यादिना । ताः प्रसिद्धाः ॥२७॥ यस्येति । गरुडः महाकायं महाप्रमाणम् । हस्तिनं गज कच्छपं चादाय यस्य शाखामाजगामे
तत्रापश्यत्स मेघाभ न्यग्रोधमृषिभिर्वृतम् । समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ॥ २७॥ यस्य हस्तिन मादाय महाकायं च कच्छपम् । भक्षार्थ गरुडः शाखामाजगाम महाबलः ॥ २८ ॥ तस्य तां सहसा शाखां भारेण पतगोत्तमः । सुपर्णः पर्णबहुलां बभञ्ज च महाबलः॥ २९ ॥ तत्र वैखानसा माषा वालखिल्या मरीचिपाः। अजा बभूवुधूम्राश्च सङ्गताः परमर्षयः ॥ ३० ॥ तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् । जगामादाय वेगेन तो चोभौ गजकच्छपौ ॥३१॥ एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् । निषादविषयं हत्वा शाखया पतगोत्तमः
॥ ३२॥ प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ ३३॥ [ शाखानिपातमीतांश्च शाखां चोत्सृज्य सर्ववित् ॥] अन्यन्वयः । भारण बभन्न नतु यवनेत्यर्थः । महागजकच्छपवहनात् भारेण शाखा भग्नाभूदित्यर्थः ॥ २८॥२९॥ तत्र शाखाया अधःप्रदेशे ये सङ्गताः
मरीचिपाः रविकिरणपानवताः, धूम्राः धूमपाः तेपां दयार्थ शाखापातेन पीडा माभूदिति तदनुग्रहार्थमित्यर्थः । एकपादन आदाय अवष्टभ्येत्यर्थः । भक्षयिन्वा आकाश एवंनि शेषः॥३०॥३१॥ आमिपं गजकच्छपरूपं मांसम् । निषादविषयं निपादग्राम शाखया हत्वा तानपि भक्षयित्वा महामुनीन् । विखानसादीन् निषादविषयस्थब्राह्मणान् वा निपादैः पीड्यमानान्वा, तद्रक्षणार्थमेव तद्धननमिति भावः । तादृशशाखारूपप्रहरणलाभेन तदैव मुनिबाधक, गरुडो गजकच्छपावादाय यस्य न्यग्रोधस्य शाखामाजगामेति सम्बन्धः ॥२८॥२९॥ तत्रेनि । तत्र भनायाः शाखायाः अधःप्रजापते खजाताः वैखानसाः । वाल ! जाता: बालखिल्याः "ये नखास्त वैखानसाःये वालास्ते बालखिल्या." इति श्रुतेः । माषा: प्रतिमाषगोत्रजाः । माषप्रमाणा वा । अजाः अयोनिजाः । धूम्राः
दवधूमपायिनः परमर्षयः सङ्गता बभूवुः ॥ ३० ॥ तेषां मुनीनां दयाथै शाखापातेन तेषां नाशो माभूदित्यनुग्रहार्थम् ॥ ३१॥ एकपादेन तो गजकच्छ पो तो शाखा पच गृहीत्वा अन्तरिक्ष पवनदामिषं गजकच्छुपामिषं भक्षयित्वा नया शाग्वया निषादविषयं निषाददेशं हत्या मुनीश्च वधानमोक्षयिचा अतुलं प्रहर्ष लेभे॥३२॥३३॥
For Private And Personal Use Only