SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बा.रा.न. ग्रावीपलाश्मानः शिला दृषत् " इत्यमरः ॥ १८ ॥ तपसा जितलोकानां पुरुषाणां विमानानीत्यन्वयः । अभिसम्पतन् मार्गवशात् प्राप्नुवन् । सशैलं नाना ॥ ८७ ॥ पुष्पफलैर्वृक्षैरनुकीर्णमित्यारभ्य सागरतेजसा स्निग्धमित्यन्तविशेषणविशिष्टं सागरानूपमवलोकयन् पाण्डरत्वादिविशेषणविशिष्टानि । तपसा जित लोकानां विमानान्यभिसंपतन् गन्धर्वाप्सरसो ददर्शेत्यन्वयः ॥ १९ ॥ २० ॥ निर्यासरसमूलानामित्यादिसार्धश्लोकपदकमेकान्वयम् । निर्यासरसमूलानां पाण्डराणि विशालानि दिव्यमाल्ययुतानि च । तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥ १९ ॥ तपसा जित लोकानां कामगान्यभिसम्पतन् । गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ २० ॥ निर्यासरसमूलानां चन्दनानां सहस्रशः । वनानि पश्यन् सौम्यानि प्राणतृप्तिकराणि च ॥ २१ ॥ अगरूणां च मुख्यानां वनान्युपवनानि च । तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ॥ २२ ॥ पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च । मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ २३ ॥ शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा । काञ्चनानि च शैलानि राज तानि च सर्वशः ॥ २४ ॥ प्रस्रवाणि मनोज्ञानि प्रसन्नानि हृदानि च । धनधान्योपपन्नानि स्त्रीरत्नैः शोभितानि च ॥ २५ ॥ हस्त्यश्वरथगाढानि नगराण्यवलोकयन् । तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् । अनूपं सिन्धु राजस्य ददर्श त्रिदिवोपमम् ॥ २६ ॥ हिगुरूपनिर्यासरसयुक्तमूलानां मूलाख्यौषधीविशेषाणाम् । मूलान्यौषधीमूलाद्विगुरूपनिर्यासा उत्पद्यन्त इति प्रसिद्धिः । वनानि अकृत्रिमाणि । उप वनानि कृत्रिमाणि । तक्कोलानां गन्धद्रव्याणाम् । जात्यानां जातिभवानाम् । फलानां जातिफलानामित्यर्थः । सुगन्धिनाम् उपवनानीत्यन्वयः । गुल्मानि स्तम्बान् । मरिचस्य मरीचस्य । समूहानीति नपुंसकत्वमार्षम् । शुष्यमाणानि चिरसङ्गतत्वेनानार्द्रार्णीत्यर्थः । तीरतः तीरे। शैलानीति नपुंसकत्वमार्षम् । अभिसंपतन मार्गवशात्प्राप्नुवन विमानानि गन्धर्वाप्सरसश्च ददर्शेति सम्बन्धः ॥ २० ॥ २१ ॥ जात्यानां जातिभवानाम् ॥ २२ ॥ समूहानित्युत्तरत्र स्थितं पदं मण्डूकप्लुत्यात्र विनियोज्यम् । तीरतः तीरे ॥ २३ ॥ प्रस्तरान् समूहान शैलानीत्यादिषु लिङ्गव्यत्यय आर्षः ||२४|| प्रस्त्रवाणि प्रवाहान । डी- निम्नम् ॥२६-२७॥ For Private And Personal Use Only टी.आ.क स० [३५ ॥ ८७ ॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy