________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
. महासमरमध्येपि गाम्भीर्य यस्य निश्वलम् । तमहं शिरसा वन्दे जानकीप्राणवल्लभम् || मारीचत्यादि । भाषतः भाषमाणस्य ॥ १ ॥ कर्तव्यं वक्ष्यन् पूर्व वृत्तं स्मारयति - जानीष इत्यादिना, अनुवर्तिनामित्यन्तमेकं वाक्यम् । खरादयश्चतुर्दशसहस्रराक्षसान्ताः जनस्थानं नित्यवासं यथा तथा वसन्तीति
मारीच श्रूयतां तात वचनं मम भाषतः । आर्तास्मि मम चार्तस्य भवान् हि परमा गतिः ॥ १ ॥ जानीषे त्वं जन स्थाने यथा भ्राता खरो मम । दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ २ ॥ त्रिशिराश्च महातेजा राक्षसः पिशि ताशनः । अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ॥ ३ ॥ वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः । बाधमाना महारण्ये मुनीन् वै धर्मचारिणः ॥ ४ ॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । शूराणां लब्धलक्षाणां खर चित्तानुवर्तिनाम् ॥ ५ ॥ ते त्विदानीं जनस्थाने वसमाना महाबलाः । सङ्गताः परमायत्ता रामेण सह संयुगे । नाना प्रहरणोपेताः खरप्रमुख राक्षसाः ॥ ६ ॥ तेन सञ्जतरोषेण रामेण रणमूर्द्धनि । अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः ॥ ७ ॥ चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् । निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ॥८॥ खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः । हृतुश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ॥ ९ ॥ पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः । स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
जानीष इत्यन्वयः । रतिवासमिति पाठे - रत्या प्रीत्या वासां यस्मिन् कर्मणि तत्तथा ॥२-५॥ नेविति । वसमानाः । ताच्छील्ये ज्ञानच संयुगे रामण सह सङ्गताः रामेण सह युद्धमकुर्वन्नित्यर्थः । परम् अत्यन्तम् । आयत्ताः सन्नद्धाः । प्रहरणं आयुधम् ॥ ६ ॥ तेनेति । अनुक्त्वा परूपं किञ्चिदित्यनेन
| ॥ १ ॥ २ ॥ लब्धलक्षाः लब्धावसराः । प्राप्तयुद्धोत्साहा इति यावत् ॥ ३ ॥ रनिवासं राक्षसाः इति पाठः- रत्या प्रीत्या वासो यस्मिन कर्मणि तत्तथोक्तम् ! चतुर्दश सहस्राणि वसन्तीत्यनुषज्यते ॥ ४ ॥ ५ ॥ संयुगे रामेण सह सङ्गताः तेन सह समरमकार्षुरित्यर्थः । वसमाना वसन्तः परमत्यर्थम् । आयनाः सन्नद्धाः ॥ ६ ॥ तेन रामेण किञ्चिदपि परुषमनुक्त्वा धनुः शरैः शरमोक्षव्यापारैः व्यापारिनं सञ्जानव्यापारं कृतम् ॥ ७९ ॥ पित्याविलोकयस्य प्रानीतिकार्यः स्पष्टः । वस्तुतस्तु
For Private And Personal Use Only