________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥ ८६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लभ्य इदमित्थमिति निश्चित्य । पुनरपि दार्व्याय गुणदोपप्राबल्यदौर्बल्यविषयचिन्तां निर्णयान्तां दर्शयति- दोषाणां चेति । इदमत्र संप्रधार्य स्वेन चिकी र्पितं सीतापहारलक्षणं कार्य किं पौरुषेण सुकरम् आहोस्विच्चौर्येण कर्तव्यमिति । कतरस्मिन् पक्षे दोषाल्पत्वं गुणभूयस्त्वमिति, तत्र पौरुषेण कर्तु मशक्यम्, खरादियुद्धे रामस्याचिन्त्यपराक्रमत्वेन श्रुतत्वात् । उपायपरिकल्पितचौर्याश्रयणे तादात्विकदोषा न लक्ष्यन्ते सीतारहितेन तव्यसनिना रामेण इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः । स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ ३ ॥ यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः । सूतं सञ्चोदयामास रथः संयोज्यतामिति ॥ ४ ॥ एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः । रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ ५ ॥ काञ्चनं रथमास्थाय कामगं रत्नभूषितम् । पिशाचवदनैर्युकं खरैः काञ्चनभूषणैः ॥ ६ ॥ मेघप्रतिमनादेन स तेन धनदानुजः । राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ॥ ७ ॥ स श्वेतवालव्यजनः श्वेतच्छत्त्रो दशाननः । स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः ॥ ८ ॥ विंशद्ध जो दशग्रीवो दर्शनीयपरिच्छदः । त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ ९॥
कापि हानिर्न सम्भाव्यते तस्मादयमेव पक्षः सम्यगिति एवं निश्चित्य प्रावर्ततेत्यर्थः । स्थिरबुद्धिः निश्चलबुद्धिः । यानशालाम् अश्वशालाम् ॥ २ ॥ ३ ॥ यानशालामिति । प्रच्छन्न इति प्रकाश वेदृद्धा मन्दोदर्यादयश्च वारयिष्यन्तीति भावः । यद्वा पौरुषं विहाय चौर्यमार्गाश्रयणं लज्जावमिति प्रच्छन्न मार्गाश्रयणम् । यद्वा तत इत्यादि सचिवान् तदानी सभास्थितान् विसृज्य स्वयं कार्य बुद्धेत्यर्थः । अत एव सचिवैः पर्यालोचनाभावात् प्रच्छन्न इत्यु क्तम् । अत एव कुम्भकर्णादिभिरुच्यते सचिवैरमन्त्रयित्वा कृतस्य कथमिदानीं प्रतीकार इति । खरलक्षणं पूर्वमुक्तम् ॥ ४-९ ॥
गम्यानुसन्धाय, पर्यालोच्येत्यर्थः । तच्च यथावदुपलभ्य इदमित्थमिति निश्चित्य । पुनश्च दाढर्याय गुणदोषप्राबल्यदौर्बल्यविषयचिन्तानिर्णयतां दर्शयति-दोषाणां चेति । इदमत्र संप्रधार्य स्वेन चिकीर्षितं सीताहरणलक्षणं कार्य किं पौरुषेण सुकरम् अथवा चौर्येण कर्तव्यमिति । कतरस्मिन पक्षे दोषाल्पत्वं गुणभूयस्त्वमिति, तत्र पौरुषेण कर्तुं न शक्यम्, खरादियुद्धे रामस्याचिन्त्यपराक्रमत्वेन श्रुतत्वात् । उपायपरिकल्पितचौर्याश्रयणे तात्कालिकदोषा न लक्ष्यन्ते सीतारहिते रामे पश्चादपि हानिर्न सम्भाव्यत इति दोषाणां गुणानां च बलाबलं संप्रधार्य ॥ २॥ इतिकर्तव्यमित्येवात्मनो निश्चयं कृत्वा अयमेव पक्षस्सम्यगिति निश्वयं कृत्वेत्यर्थः । स्थिरबुद्धिस्सन् । ततोऽनन्तरं यानशाला जगामेत्यन्वयः ॥ ३ ॥ प्रच्छन्नं गृहम् । प्रकाशं चैव वृद्धा वारयिष्यन्तीत्यभिप्रायः ।। ४९ ।।
For Private And Personal Use Only
टी.आ.क. स० ३५
॥ ८६ ॥