SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रोचत इति । तं तुभ्यम् । " रुच्यर्थानां प्रीयमाणः” इति चतुर्थी । निर्विशङ्केन त्वयेति शेषः ॥ २५ ॥ विज्ञायति । आत्मशक्तिं स्वबलम् । “शक्तिर्बले प्रभावादौ " इति विश्वः । विज्ञाय पर्यालोच्य । बलात् पौरुषेण सीता भार्यार्थे हियताम् ॥ २६ ॥ उक्तमर्थ सर्गान्ते पुनः संगृह्णाति - निशम्येति । प्रति यदि तस्यामभिप्राय भार्यार्थे तव जायते । शीघ्रमुदयितां पादो जयार्थमिह दक्षिणः ॥ २२ ॥ कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर । वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ॥ २३ ॥ तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् । हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ॥ २४ ॥ रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर । क्रियतां निर्विशङ्केन वचनं मम रावण ॥ २५ ॥ विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् । सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर ॥ २६ ॥ निशम्य रामेण शरैरजिह्मगैर्हतान् जनस्थानगतान्निशाचरान् । खरं च बुध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ॥ २७ ॥ इत्यार्षे श्रीरामायणे - श्रीमदारण्यकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् । सचिवानभ्यनुज्ञाय कार्य बुध्वा जगाम सः ॥ १ ॥ तत्कार्यमनुगम्याथ यथावदुपलभ्य च । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir पत्तं ज्ञातुम् ॥ २७ ॥ इति श्रीगोविन्दराजविरचितं श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ यद्वाहनम्य माहात्म्यं सर्वेषां विस्मयावहम् | अवतीर्ण रघोर्वशे तमहं विष्णुमाश्रये ॥ तत इति । रोमहर्षणं भयोत्पादकत्वेन रोमाञ्चकरम् सचिवमुखेन कार्य बुडा तानभ्यनुज्ञाय विसृज्य ॥ १ ॥ तदित्यादिश्लोकद्वयमेकान्वयम् । अनुगम्य स्वयमनुसन्धाय पर्यालोच्येत्यर्थः । यथावदुप टी-मार्यास्वेन भार्यास्वनादाने ॥ २२-२६ ॥ निशम्येति । प्रतिपत्तुं ज्ञातुम् ॥ २७॥ इति श्रीमहेश्वर० श्रीरामायण तवदीपिकाख्यायामारण्यकाण्ड० चतुस्त्रिंशः सर्गः ॥ ३४॥ तत इति । शूर्पणखावाक्यमिति शूर्प शोणितभाजनं शूर्पेण शोणितभाजनेन यज्ञादिसत्क्रियां नखयति विदूषयतीति शूर्पनखा । " नख विदूषणे " इति धातुः । यद्वा शूर्पाकाराणि नखानि यस्यास्सा। सचिवमुखेन कार्य बुध्वा । तानभ्यनुज्ञाय विसृज्य जगाम अन्तःपुरमिति शेषः ॥ १ ॥ अथानन्तरम् । तत्कार्य स्वयमनु For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy