________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
टी.आ.का.
॥८५॥
अनुरागवान् । भक्तः तन्कार्यभजनशीलः ॥ १२ ॥ दक्षिणी बाहुरित्वनेन सर्वकार्यधुरंधरत्वमुक्तम् । प्राणत्वरूपणेन निरतिशयप्रेमास्पद त्वम् । अनुरक्त इत्यस्य दृष्टान्तीयमिति न पुनरुक्तिः ॥ १३॥ रामस्य प्रियास्तीत्यन्वयः॥ १४ ॥ तां वर्णयति-सेत्यादिना । यशस्विनी उक्तरूपादि मत्त्वकीर्तिमती । वनस्य देवतंव स्थिता श्रीरिख राजते ॥ १५॥ तप्तकाञ्चनवर्णाभा तप्तकाञ्चनवर्णतुल्या आभा यस्याः सा । वैदेही विदेहराजेन
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ १३ ॥ रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना । धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ॥ १४॥ सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी । देवतेव वनस्यास्य राजते श्रीरिवापरा ॥ १५॥ तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा। सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ १६॥ नैव देवी न गन्धर्वी न यक्षी नच किन्नरी । नैवरूपा मया नारी दृष्टपूर्वा मही तले ॥१७॥ यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् । अतिजीवेत् स सर्वेषु लोकेष्वपि पुरन्दरात् ॥ १८ ॥ सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि । तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ॥ १९ ॥ तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् । भार्यार्थे च तवानेतुमुद्यताहं वराननाम् । विरूपितास्मि क्रूरेण लक्ष्मणेन
महाभुज ॥२०॥ तां तु दृष्ट्वाद्य वैदेही पूर्णचन्द्रनिभाननाम् । मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ॥२१॥ पुीकृता ॥ १६॥ एवंरूपा देवी च न दृष्टपूर्वा गन्धर्वी च न दृष्टपूर्वा यक्षी च न दृष्टपूर्वा किन्नरी च न दृष्टपूर्वा एवंरूपा नारी महीतलेपि न दृष्टपूर्वा इत्यन्वयः । उत्तरार्धे महीतल इत्यनेन पूर्वार्धे स्वर्गलोक इति सिद्धम् । देव्यादीनां तत्रैव वाससम्भवात् । यद्वा महीतल इति सर्वलोकोपलक्षणम्॥१७॥ परिष्वङ्गं विना भार्यात्वेन स्थिता चेत् सः सर्वेषु लोकेषु सर्वानपि लोकान् । अतिजीवेत् अतीत्य जीवेत् । सर्वलोकोत्तीर्णपरमसुखमयजीवन इत्यर्थः। परिष्वङ्गाभावेपि सदा सन्निधानादिसौख्यादिति भावः । भार्यात्वं विनापि यं सकृत् परिष्वजेत् सः पुरन्दरादपि पुरन्दरमपि अतिजीवेत् अतिशय्य जीवेत् ॥ १८॥ सा सुशीलेति । वपुःश्लाघ्या वपुषा श्लाघ्या, सर्वानवद्याङ्गीत्यर्थः ॥ १९॥ विस्तीर्णजघना विशालजघनां तव चेत्यन्वयः ॥२०-२४॥ रामस्य दक्षिणो बाहुरिन्यनेन रामकार्यधुरन्धरत्वं प्रतीयते । प्राणो बहिश्वर इत्यनेन निरतिशयप्रेमास्पदत्वं दर्शितम् ।। १३-२१॥
For Private And Personal Use Only