SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kondra www.kobatirth.org Acharya Sivi Kalassagarsun Gyarmandir टी.आ.का. स.३४ प.रा.भ.पराचिरं तिष्ठत इत्यत्र आपमात्मनेपदम् ॥ २० ॥ जागर्ति अप्रमत्तो भवतीत्यर्थः ॥ २१॥ यस्य ते यन त्वया । अविदित इति छेदः ॥२२॥ सर्गार्थमेकेन 1८४॥ संगृह्णाति-परेति। परावमन्ता शत्रुषु उपेक्षावान् । विषयेषु शब्दादिषु । सङ्गतःसङ्गवान् ।नदेशकालपविभागतत्त्वविदित्येकं पदम् । नगनैकादिवनसमासः अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः। कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥२०॥ नयनाभ्यां प्रसु तोपि जागर्ति नयचक्षुषा। व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥२१॥ त्वं तु रावण दुर्बुद्धिगुणरतर्विवजितः। यस्य ते विदितश्चारै रक्षसां सुमहान् वधः ॥२२॥ परावमन्ता विषयेषु सङ्गतो नदेशकालप्रविभागतत्त्ववित् । अयुक्त बुद्धिर्गुणदोषनिश्चये विपन्नराज्यो नचिरादिपत्स्यसे ॥२३॥ इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्धया क्षणदाचरेश्वरः । धनेन दर्पण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ॥ २४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३॥ ततः शूर्पणखां कुद्धा अवन्ती परुषं वचः। अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥ १॥ कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः। किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ॥२॥ देशकालभेदातत्त्वज्ञ इत्यर्थः। गुणदोषनिश्चये विषये अयुक्तबुद्धिःअनियोजितबुद्धिः, अप्रवृत्तबुद्धिरित्यर्थः । नचिरात् क्षिप्रम् । विपत्स्यसे आपदंप्राप्स्यसी त्यर्थः। त्वमिति शेषः ॥२३॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ परगोष्ठीप्रसिद्धानां गुणानामाकरो महान् । अनुजो यस्य सौमित्रिस्तमहं राममाश्रये ॥ तत इति । संक्रुद्धः शत्रुविषयेऽत्तीव क्रोधवान् ॥१॥ कथंवीर्यः अस्थाने क्रोधवन्तम् । व्यसने व्यसनकाले । स्वजनोपि अमात्यादिरपि ॥ १६-१९॥ सर्वज्ञः स्वरा परराष्ट्रवृत्तान्तज्ञः ॥ २० ॥ व्यक्तक्रोधप्रसादश्च व्यक्ती सार्थकत्वेनाभिव्यक्तो क्रोधप्रसादौ यस्य सः तथोक्तः ॥ २१॥ यस्य ते येन त्वया अविदितः न ज्ञात इत्यर्थः ॥ २२ ॥ नदेशकालपविभक्ततत्वविदिति नगनेका दिवन्नसमासः। नचिरात् क्षिप्रम् । विपत्स्यसे आपदं प्राप्स्यसीत्यर्थः ॥ २३ ॥ विचिन्तयामासेति मारीचः समरो मास्त्विति ब्रूते, इयं भगिनीतु समर प्रोत्साहयति किमत्रकर्तव्यमिनि चिन्तयामासेत्यर्थः ॥ २४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो चयरिंशः सर्गः ॥३३॥१-५॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy