SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aadhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir चारप्रयोजनमाह-यस्मादिति ॥१०॥ एवं लोकरीत्योक्तं रावणे उपसंहरति-अयुक्तेत्यादिना । जनस्थानं जनस्थानस्थम् ॥ ११॥१२॥ स्वजनवधादपि दुःसह कार्यान्तरमाह-ऋषीणामिति ॥ १३॥ लुब्धः चारादीनामभिमताप्रदाता ॥ १४॥ तीक्ष्णं चरम् । शठं गूढविप्रियकारिणम् । व्यसने व्यसनकाले । सर्वभूतानि भृत्यामात्यादीनि । नाभिधावन्ति तदक्षणाय न प्रवर्तन्ते ॥ १५॥ अग्राह्यं सद्भिरिति शेषः। आत्मना स्खेनैव बहुमानं यस्मात् पश्यन्ति दूरस्थान सर्वानान्नराधिपाः ।चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः॥ १० ॥ अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् । स्वजनं तु जनस्थानं हतं यो नावबुद्धयसे ॥ ११॥ चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् । हतान्येकेन रामेण खरश्च सहदूषणः ॥ १२॥ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः। धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥ १३॥ त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण । विषये स्वे समुत्पन्नं भयं यो नावबुद्धयसे ॥१४॥ तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् । व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥१५॥ अतिमानिनमग्राह्यमात्मसम्भावितं नरम् । क्रोधिनं व्यसने हन्ति स्वजनोपि महीपतिम् ॥ १६॥ नानुतिष्ठति कार्याणि भयेषु न बिभेति च । क्षिप्रं राज्याच्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥ १७ ॥ शुष्कैः काष्ठेर्भवेत् कार्य लोष्टैरपि च पांसुभिः। न तु स्थानात् परिभ्रष्टैः कार्य स्यादसुधाधिपैः॥१८॥ उपभुक्तं यथा वासस्स्रजो वा मृदिता यथा । एवं राज्यात् परिभ्रष्टः समर्थोपि निरर्थकः ॥ १९॥ प्राप्तः सोयमात्मसम्भावितः तम् । कोधिनम् अस्थाने क्रोधवन्तम् । व्यसने व्यसनकाले । स्वजनोपि अमात्यादिरपि ॥ १६॥ भयेषु भयहेतुषु । न बिभेति साशङ्को न वर्तत इत्यर्थः ॥ १७॥ १८॥ उपभुक्तवस्त्रादिदृष्टान्तः परेषामयोग्यत्वप्रदर्शनाय ॥ १९॥ स्वे विषये स्वकीये देशे ॥१४॥ तीक्ष्णं प्रत्यक्षदृश्यमानम् । शठं गूढविप्रियकारिणम् ।गवितं सनातगर्व पाविम्। सर्वभूतानि भृत्यादिसर्वप्रजा अपिव्यसने व्यसन काले नाभिधावन्ति तद्रक्षणाय न प्रवर्द्धन्ते ॥१५॥ अग्राह्यं सद्भिरिति शेषः। आत्मसम्भावितम् आत्मनास्वेनैव बहुमान प्राप्तः सोयमात्मसम्भावितः तम् । क्रोधिनम् For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy