________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
बा.रा.भू.
मित्यनुषज्यते ॥ १० ॥ क्षोभणं क्षोभकर्तारम् । योक्तारं प्रयोक्तारम् । यज्ञेति । उच्छेत्तारमित्यत्र उच्छास्त्रवर्तित्वमुक्तम् । अत्र परयज्ञध्वंसकत्वम् ॥ ८२ ॥ ७४ ॥ ११॥ १२ ॥ भोगवतीं सर्पनगरी पराजित्य बलात्कृत्येति यावत् ॥ १३ ॥ नरवाहनं कुबेरम् ||१४|| नलिनीं कुबेरस्य पुष्करिणम् । नन्दनं वनम् इन्द्रोद्यानं देवोद्यानानि नन्दनवनादन्यानि ॥ १५ ॥ उत्तिष्ठन्तौ उद्यन्तौ ॥१६॥ उपजहार पूजोपकरणानि चकार ॥ १७ ॥ देवदानवेति देवादिभिः कर्तृभिः । मृत्युतः आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा । अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ ११ ॥ क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् । उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥ १२ ॥ सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा । पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ॥ १३ ॥ तक्षकस्य प्रियां भार्यौ पराजित्य जहार यः । कैलासपर्वतं गत्वा विजित्य नरवाहनम् ॥ १४ ॥ विमानं पुष्पकं तस्य कामगं वै जहार यः । वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ॥ १५ ॥ विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् । चन्द्रसूर्यो महाभागावुत्तिष्ठन्तौ परन्तपौ ॥ १६ ॥ निवारयति बाहुभ्यां यः शैलशिखरोपमः । दशवर्षसहस्राणि तपस्तप्त्वा महावने ॥ १७ ॥ पुरा स्वयम्भुवे धीरः शिरस्युपजहार यः । देवदानवगन्धर्वपिशाचपतगोरगैः ॥ १८ ॥ अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते । मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥ १९ ॥
मृत्योः । षष्ठ्यर्थे तसिः । अभयं भयाभावः अस्तीति गम्यमानत्वादप्रयोगः । मनुष्यादृते मनुष्यं विना, मनुष्यात्तु भयमस्तीत्यर्थः । अध्वरेषु यागेषु हविधानेषु सोमाभिपवशालासु । मन्त्रैः प्रातरनुवाकयावस्तोत्रादिभिः करणैः । द्विजातिभिः कर्तृभिः। अभिष्टुतं क्षरितं सोमम् उपहन्ति होमकाले नाशयती नलिनीं चैत्ररथवनमध्यवर्तिनीं सरसीमित्यर्थः ॥ १५ ॥ १६ ॥ उत्तिष्ठन्तौ उदयन्तौ ॥ १७ ॥ शिरांस्युपजहार पूजोपकरणानि चकार । देवदानवेति मानुषाहते देवादिभिः कर्तृभिः अस्य मृत्युतो भयं मरणभयं नास्तीत्यर्थः ॥ १८ ॥ १९ ॥
स० [देवदानवादिभिस्सह मृत्युतो भयम् । तत्रापवादमाह मानुषादृते मक्ष्यत्वेनालक्ष्यत्वात्ततोऽवध्यत्वाप्रार्थनादिति भावः ॥ १८ ॥
For Private And Personal Use Only
टी.आ.की. स० ३२
॥ ८२॥