________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
॥८१॥
तान् हन्तीति तथा ब्रह्मादिव्यतिरिक्तेप्युपपदे प्रयोगानुसारात् क्विप। शराङ्गपूर्णः शरा एवाङ्गानि नखाद्यवयवाः तैः पूर्णः निशितासिरेख दंष्ट्रे यस्य स टी.आ.को, तथा नृसिंहो नरश्रेष्ठः सिंह इत्यपि ध्वन्यते । यद्वा नृसिंह एव सिंह इत्येक शेषः । बदा विद्वन्मानसहंस इतिवत् श्लिष्टं रूपकम् । यदा नृसिंहो रामः पुरुषVI.३१ सिंह इति व्यङ्गयम् ॥ ४७॥ सिंहाभिमुखगमनेपि देवाष्टिवैषम्यानिवर्तितुं शक्यम् न तु रामाहवगमन इत्याशयेन रामस्य पातालसाम्यमाह-चापेति ।
चापावहारे भुजवेगपङ्के शरोमिमाले सुमहाहवौघे । न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम् ॥४८॥ प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्का प्रसन्नो भवसाधु गच्छ। त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥ ४९ ॥ एवमुक्तो दशग्रीवो मारीचेन स रावणः । न्यवर्तत पुरीं लङ्का विवेश च गृहोत्तमम् ॥५०॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः ॥३१॥ चाप एवावहारो ग्राहो यस्मिन् स तथा। 'ग्राहोवहारः' इत्यमरः । अनेन पतनकाल एव ग्रहणसामग्र्युक्ता । भुजवेगः शरमोक्षणवेगः स एव पङ्को यस्य स तथा अनेन मज्जने निर्गमायोग्यतोक्ता ।शरा एवोर्मिमाला तरङ्गपतिर्यस्य स तथा । अनेन मज्जनसामग्रयुक्ता । सुमहानाहव एवं ओपो जलपूरो यस्य स तथा । अनेन दुस्तरत्वमुक्तम् । अतिचोरे राम एव पातालं महाबिलं तस्य मुखे मध्ये प्रस्कन्दितुं न युक्तम् ॥ १८॥ एवं वस्तुस्थितिमुक्त्वा प्रेमातिशयेन पुनःपुनः सान्त्वयति-प्रसीदेति ॥४९॥५०॥ इति श्रीगो श्रीरा. रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकत्रिंशः सर्गः ॥३१ त्वम् । नृसिंहो ना मनुष्यः दशरथतनयरूपेण गृहीतलीलाविग्रहः श्रीराम एव सिंहः बोधयितुं न युक्त इति योजना ॥ ४७ ॥ चाप एव अवहारो जलग्राहो यस्मिन "माहोऽवहारः" इत्यमरः। भुजयोगः शरसन्धानमोक्षणविषयो वेगः स एव पङ्को यस्मिन् तस्मिन् । चापस्य परनिग्रहपरतया मकरसाम्यम् । दुस्तरत्वसाम्येन भुज वेगस्य पडसाम्यम् । शरोमिमाले शरा एव ममालास्तरङ्गसमूहा यस्मिन् तस्मिन् सुमहाबलोघे महाबलमेव ओघ आवतों यस्मिंस्तस्मिन् । सुमहाहवौष इति पाठे-सुमहानाहव एव लक्षणया रणोत्साहा एव ओघः प्रवाहो यस्मिस्तस्मिन् । अतिघोरे दुष्प्रवेशतया भयङ्करे । राम एव पातालमुखः समुद्रस्तस्मिन् प्रस्कन्दितुं । प्रवेष्टुं न युक्तमित्यन्वयः ॥ ४८ ॥ रावणोद्युक्तमकार्यमविलम्बन निवर्तयितुं प्रसीद प्रसन्नो भवेति पुनःपुनराह ॥ ४९ ॥ ५० ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतस्वदपिकास्यायामारण्यकाण्डव्याख्यायामेकत्रिंशः सर्गः ॥३१॥
For Private And Personal Use Only