SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir उद्धारयितुं क इति शेषः । तेन कर्मणा सीतापहारलक्षणकर्मणा । कापथं कुमार्गम् । “ऋक्पूरब्धः पथामानक्षे" इति समासान्तः अप्रत्ययः। प्रतिपादितः उपदिष्टोसि । कर्मणा केनेति पाठे-केन पुरुषेण केन कर्मणा केनोपायेन कापथं प्रतिपादितोसीत्यन्वयः। मूर्ध्नि केन प्रहृतं केन प्रहारः कृतः । वृथैव केन दुःखमुत्पादितमित्यर्थः॥४४॥४५॥ रामे के गुणं दृष्ट्वेवं वदसीत्याशयाह-विशुद्धेति । अनेन रामस्य मत्तगजसमाधिरुच्यते । विशुद्धवंशाभिजनाग्रहस्तस्तेजोमदः संस्थितदोर्विषाणः। उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती ॥४६॥ असौरणान्तस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः। सुप्तस्त्वया बोधयितुं न युक्तःशराङ्गपूर्णो निशितासिदंष्ट्र:४७ विशुद्धवंशे अभिजनः अभिजननं तदेवाग्रहस्तो यस्यस तथा । द्वयोरोन्नत्यकरत्वसाम्याद्रूपकं निरूढम् । तेजोमदः तेजः प्रताप एव मदो यस्य सः । तेजो मदयोर्दुर्घपताहेतुत्वसाम्यापकोपपत्तिः । उपरितनपदे संस्थितत्वसाम्यापकम् । संस्थितौ समीचीनसंस्थानवन्तौ दोपौ बाह एव विपाणे यस्य सः॥ राघव एव गन्धहस्ती मगजः यस्य गन्धमात्रेणान्ये गजाः पलायन्ते स गन्धहस्तीत्युच्यते । उदीक्षितुमपि इहास्मिन् देशे काले च न युक्तः॥४६॥ पुनरप्यतिशयं वक्तुं रामस्य सिंहसाम्यमाह-असाविति । रणान्तो रणाग्रं तत्र स्थिति सीरावस्थानं सैव सन्धिवालो यस्य स तथा सन्दधातीति सन्धिः। "उपसर्गे घोः किः" इति किः। सन्धिभूतः लोमसङ्घभूत इत्यर्थः । वालो लाङ्ग्लम् । यद्वा संधिर्मध्यः तद्गतो वालो लाशूलं यस्य स तथेति वा। सिंहस्य लाशूलं क्रोधदशायां मध्योपरिप्रदेशे वर्तते इति प्रसिद्धिः। तस्य मृगाणां गर्वहेतुत्वेन रणाग्रस्थितिसाम्यम् । विदग्धानि पटूनि रक्षास्येव मृगाः विशुद्धवंशे अभिजनोऽभिजननमेव ॥ अमहस्तो यस्य स तथा गजस्य यथा करो भूषणम् तथा श्रीरामचन्द्रस्यापि सत्कुलप्रसूतत्वं भूषणमिति भावः । तेजो मदः तेज प्रताप पर मदो यस्य सः समदस्यैव गजस्य श्लाध्यतया मदो यथा गजस्य भूषणं तथा श्रीरामचन्द्रस्यापि महावीर्यस्य प्रताप एव भूषणमिति भावः।। संस्थित दोर्विषाणः संस्थिती संस्थानवन्तो दिव्यलक्षणलक्षितो दोषो बाहू एव विषाणे यस्य स तथा गजस्य शृङ्गद्वयमिव श्रीरामस्याजानुलम्बि भुजगमोगाभबाहु द्वयं भूषणमिति भावः । राघवगन्धहस्ती मत्तगजः यस्य मदगन्धेनान्ये गजाः पलायन्ते स मदगन्धहस्ती । इह इदानीं यदीक्षितुमपि न युक्ता, किमुत योद्धमिति भावः ॥४६॥रणान्तरिस्थतिसन्धिवाला रणान्ते साममध्ये स्थितिरनपक्रमणमेव सन्धिः अङ्गप्रत्यङ्गसन्धिश्च वालश्च यस्य स तथा । रणान्तस्थितिसन्धिपाल इति पाठे रणान्तःस्थित्या रणमध्यावस्थानेन सन्धीन छिद्राणि पालयतीति तथा। विदग्धाः रणचतुरा ये खरादिराक्षसरूपाः मृगाः तान हन्तीति तथा। शराङ्गपूर्णः शरैरेवाडैरवयवैः पूर्णः । निशितासि तीक्ष्णखड़ एव दंने यस्य सः। सुप्तः परद्रोहविमुखतया अवस्थानमेव सुप्तत्वं रामपक्षे द्रष्टव्यम् । सिंहपक्षेतु सुप्तत्वं सनिद्र For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy