________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भू.
मस्तीत्याशङ्के, तदिशिष्य न जाने महत्कार्य विना भवतस्तूर्णमागमनं नोपपद्यत इति भावः । यद्वा लोकानां कच्चित् सुकुशलम् अथ अथवा तेषां टी.आ.कॉ. कुशलं नेत्याशङ्के यतस्त्वं तूर्णमागतः न जाने तद्विशिष्य न जान इत्यर्थः ॥ ३८॥ एवमुक्त इति । ततः पश्चात् तद्वाक्यादनन्तरम् ॥ ३९॥
स.३१ एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद्राक्यकोविदः ॥३९॥ आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा।जनस्थानमवध्यं तत् सर्वं युधि निपातितम् ।तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ॥४॥ राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ॥४१॥ आख्याता केन सीता सा मित्ररूपेण शत्रुणा । त्वया राक्षसशार्दूल को न नन्दति निन्दितः । सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे ॥ ४२ ॥ रक्षोलोकस्य सर्वस्य कः शृङ्ग छेत्तुमिच्छति। प्रोत्साहयति कश्चित्त्वां स हि शत्रुरसंशयः ॥४३॥ आशीविषमुखाईष्ट्रामुद्धर्तु चेच्छति त्वया । कर्मणा तेन केनासि कापथं प्रतिपादितः॥४४॥ सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ॥४५॥ आरक्षः अन्तपालः । उक्तमुपपादयति-जनस्थानमित्याद्यर्धेन। जनस्थानशब्देन तत्स्थो रक्षोगणो लक्ष्यते । तत् प्रसिद्धम् । साचिव्यं साहाय्यम् । तस्य मे हतस्वजनस्य मे ॥४०॥४१॥ आख्यातेत्याद्यर्धत्रयमेकान्वयम् । यः सीतायाः आख्याता स मित्ररूपः शत्रुः। यश्च तामानयेत्युपदेष्टा सः त्वया निन्दितः सन् तिरस्कृतः सन् त्वदेश्वर्य न नन्दति तावुभौ बृहीत्यर्थः । ब्रवीहीत्यत्र ईडागमछान्दसः॥ ४२ ॥ रक्षोलोकस्येत्यादि । शृङ्गं प्राधान्यम् । "शृङ्गं प्राधान्यसान्वोश्च" इत्यमरः । प्रोत्साहयति सीतानयनं प्रतीति शेषः । स च स एव ॥४३॥ आशीविषेति । आशीविषः सर्पविशेषः । उद्धर्तुम् । य तस्सूर्णमागतः अतः कुशलं नैव जाने महत्प्रयोजनं विना भषदागमनं नोपपद्यत इत्यर्थः॥ ३८ ॥३९॥ आरक्षः अन्तपाला, खरादिरित्यर्थः । अत एव जन स्पानं इतं नाशितम् । साचिन्य साहाय्यम् ॥४०॥४१॥ सा सीता केन आख्याता आहर्तव्येति शेषः । आख्याता कथितेत्यर्थः । त्वया सामादिनानन्दितः को वा नन्दति, स्वकीयशाठचेनेति भावः ताशा को वा सीतामिहानयस्वेति ब्रवीति तमपि ब्रवीहिनदि । निन्दित इति पाठे-निन्दितस्त्वया तिरस्कृतः को वा|Inton ननन्दति राज्यलक्ष्मीसम्पन्नं त्वां दृष्ट्रेति शेषः । त्वया तिरस्कृतस्तावकमैश्वर्यमसहमानस्सन् त्वया सह कृत्रिममित्रभावं प्राप्तस्सन तवेदशी बुद्धिमुपदिशतीति भावः ॥ ४२ ॥ शृङ्ग प्राधान्यमैश्वर्यमिति यावत् ॥ ४३ ॥ उद्धर्वमुद्धारयितुम् । कापर्थ कुमार्गम् । प्रतिपादितःप्रापितः॥४४॥४५॥
SS
For Private And Personal Use Only