SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir खरशीलाः खरा यः ॥” इति ॥३४॥ नक्षत्रपथगः आकाशगः । सञ्चार्यमाणः प्रेर्यमाणः ॥ ३५ ॥ ताटकेयं ताटकापुत्रम् । भक्ष्यभोज्य पेयखाद्यैः। अमानुषैः मनुष्यलोकदुर्लभैः ॥ ३६ ॥ अर्थोपहितया अर्थेन प्रयोजनेन उपहितया विशिष्टया ॥३७ ॥ हे राजन् ! लोकानां राक्षसलोकानां राक्षसे । स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् । सञ्चार्यमाणःशुशुभे जलदे चन्द्रमा इव ॥ ३५ ॥ समारीचाश्रमं प्राप्य ताटकेयमुपागमत् । मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ ३६ ॥ तं स्वयं पूजयित्वा तु आसनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ ३७॥ कच्चित् सुकुशलं राजन् लोकानां राक्षसेश्वर । आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ॥ ३८॥ श्वरेति समभिव्याहारादयमों लभ्यते । सुकुशलं कच्चिदिति सामान्येन प्रश्नः। अथ अथवा त्वं यतस्तूर्णमिहागतः ततः कारणात् किंचिदत्याहित । श्रीरामोऽवतरिष्यतीति सनत्कुमारवाक्यं स्मृत्वेत्यर्थः । श्रीरामहस्ताद्वधेच्छू रावणः तद्वाक्यं तस्याकम्पनस्य वाक्यं सीतामपहरेत्येवंरूपं वचनमरोचयत अनु कूलत्वेनाङ्गीचकारेति सम्बन्धः । अस्मिन्नर्थे उत्तररामायणोक्ता सनत्कुमाररावणसम्बन्धिनी अगस्त्यरामसंवादरूपा कथानुसन्धेया । तथाहि रामं प्रत्यगस्त्यवचनम्“अथापरी का दिव्यां शृणु राजन पुरातनीम् । यदर्थ राम वैदेही रावणेन हृता पुरा । पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् । सनत्कुमारमासीनं रावणो वाक्यमब्रवीत् । रावण:-दैत्यदानवयक्षांसि ये हतास्समरेडरयःको गति प्रतिपद्यन्ते केन ते हरिणा हताः॥ सनत्कुमार:-ये ये हताश्चक्रधरेण राजन् त्रैलोक्य नायेन जनार्दनेन । ते ते गतास्तविलयं नरेन्द्राः क्रोधोपि देवस्य वरेण तुल्यः ॥ श्रुत्वा ततस्तद्वचनं निशाचरस्सनत्कुमारस्य मुखाद्विनिर्गतम् । तदा प्रष्टस्स बभूव विस्मितः कथं नु यास्यामि हरि महाहवे । मुनिः-मनसश्चेप्सितं यत्तद्भविष्यति तदाहवे। सुखी भव महाबाहो किचित्कालं प्रतीक्षय । अथवा राक्षसेन्द्र त्वं यदीदं प्रष्टुमिच्छसि । कथयिष्यामि ते सर्व श्रूयतां यदि रोचते । कृतेयुगे व्यतीते वै मुखे त्रेतायुगस्य तु । हितार्थ देवमांना भविता नृपरिग्रहः । इक्ष्वाकूणां च कायो राजा भाव्यो दशरथो भुवि । तस्य सूनुमहातेजा रामो नाम भविष्यति । एवं श्रुत्वा महाबाहू राक्षसेन्द्र प्रतापवान् । त्वया सह विरोधेच्छुश्चिन्तयामास राघर । सनत्कुमारात्तद्वाक्यं चिन्तयानो मुहुर्मुहुः । राषणो मुमुदे मोहायुद्धार्थी विचचार ह । एतदर्थ महाबाहो रावणेन दुरात्मना । सुता जनकराजस्य हता। राम महामते । लङ्कामानीय यत्नेन मातेव परिरक्षिता ॥" इत्यादि । अत एव रावणस्य सीतारामभृत्यत्वेन तावुद्दिश्य तेन वक्ष्यमाणानि बाह्यदृष्टया दुर्भाषण वत्प्रतीयमानान्यपि वाक्यानि वस्तुतः स्तुतिपराण्येव । तथा तत्र तत्र व्याख्यास्यामः ॥ ३३-३५ ॥ ताटकेयं मारीचम् ॥३६॥ अर्थोपहितया अर्धगम्भीरया N३७ ॥ अथ जाने इत्ति छेदः । हे राजन् ! कञ्चित्सुकुशलमिति सामान्यप्रश्नः। राक्षसेश्वर लोकानां राक्षसलोकानां कुशल नेत्याशढे । अथ अथवा । त्वं For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy