________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.का.
७७ ॥
आदित्यपावको परस्परसाहाय्येन संयुक्तावपीत्यर्थः । अतो न पुनरुक्तिः॥७॥ सन्दिग्धया सन्दिग्धाशरया । याचते अयाचत । अभयमिति च्छेदः
८-११॥ नागेन्द्रः सर्पेन्द्रः ॥ १२ ॥ स रामः सुरेन्द्रेणामरैश्च युक्तः सन् जनस्थानमुपयातः कच्चित् ? अन्यथा तस्यैतादृशसामर्थन युज्यत। इति भावः॥ १३॥ १४ ॥ इन्द्रादिसहायानपेक्षो राम इत्याशयेनाह-रामो नामेत्यादिना । दिव्यास्त्रगुणसम्पन्नः दिव्यास्त्रकृतातिशययुक्तः ॥१५॥ दहेयमपि संक्रुद्धस्तेजसादित्यपावको । वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ ७॥ तथा क्रुद्धं दशग्रीवं कृता अलिरकम्पनः।भयात् सन्दिग्धया वाचा रावणं याचतेऽभयम् ॥ ८॥ दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः। स विश्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः॥९॥ पुत्रो दशरथस्यास्ति सिंहसंहननो युवा रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ॥ १०॥ वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः । हतं तेन जनस्थानं खरश्च सहदूषणः ॥ ११ ॥ अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः । नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ १२॥ स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह । उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ १३ ॥रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः । आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ १४॥ रामो नाम महातेजाः श्रेष्ठः सर्वधनु ष्मताम् । दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि ॥ १५॥ तस्यानुरूपोबलवान् रक्ताक्षो दुन्दुभिस्वनः । कनीयान लक्ष्मणो नाम भ्राता शशिनिभाननः॥ १६ ॥स तेन सह संयुक्तः पावकेनानिलो यथा । श्रीमान् राजवरस्तेन
जनस्थानं निपातितम् ॥१७॥ नैव देवा महात्मानो नात्रं कायर्या विचारणा ॥१८॥ शतस्येति । रक्ताक्षः रक्तरेखाञ्चितनयनः । दुन्दुभिस्वनः दुन्दुभिवत् गम्भीरस्वनः। संयुक्त इति वर्तत इति शेषः ॥ १६ ॥१७॥ नैव देवा इति सहायार्थ गति स्थिति स्वरूप वा ॥४-७॥ सन्दिग्धया वाचा सन्दिग्धाक्षरया वाचेत्यर्थः ॥८॥९॥ सिंहसहननः "वराङ्गक पोपतो यः सिंहसंहननो हि सः" इत्यमरः॥१०॥११॥ नागेन्द्र इव सर्पश्रेष्ठ इव ॥ १२-१७ ॥ नैव देवा महात्मान इति आयाता इति शेषः ॥ १८ ॥१९॥
For Private And Personal Use Only