SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वृत्तान्तेन चरमपदार्थभूता विरोधिनिवृत्तिरिति । अथ पूर्वखण्डार्थ उच्यते शास्त्रशेषेण । तत्र चारण्यकाण्डशेपेण विभीषणस्य पुरुषकारसान्निध्यमुच्यते किष्किन्धाकाण्डेन नारायणपदार्थभूतं वात्सल्यम्, सुन्दकाण्डेन चरणशब्दोक्तदिव्यमङ्गल विग्रहवैशिष्टयम् 'रामः कमलपत्राक्षः' इत्यादिना तथोक्ते युद्धकाण्डे शरणागतिः, उत्तरकाण्डे प्रपन्नचर्येति बोध्यम् । एवमानुषङ्गिकमुनिजनशरणागतिफलं देवशरणागतिकार्यरावणवधाङ्गत्वेनोक्त्वा अथ जनस्थानस्थिता राजन राक्षसा बहवो हताः । खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः॥२॥ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः । अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥३॥ केन रम्यं जनस्थानं हतं मम परासुना।को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥४॥न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् । प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ॥५॥ कालस्य चाप्यहं कालो दहेयमपि पावकम् । मृत्यु मरणधर्मेण संयोजयितुमुत्सहे ॥६॥ तन्निमित्तभूतसीतापहाररूपबीजमुपक्षिति-त्वरमाण इत्यादिना ॥ संहृत्य सकलं लोकं पुनः स्रष्टुं च यः क्षमः। तमहं शिरसा वन्दे जानकीप्राणनायकम् ॥ स्वरमाणः शूर्पणखागमनापेक्षयेति शेषः । अकम्पनो रावणचारः त्वरमाणो गत्वा वेगेनावीदित्यन्वयः ॥ १॥ जनस्थानेति । कथञ्चिदिति स्त्रीवेष धारणेनेति भावः । अत एव शूर्पणखा वक्ष्यति " एका कथञ्चिन्मुक्ताई परिभूय महात्मना । स्त्रीवर्ष शङ्कमानेन राघवेण महात्मना ॥” इति ॥२॥ ॥ तनि०-लङ्काया जनस्थान पुरवारसदृशं खलु । लङ्कनया राज्यं जनपदनामादिसंकुलं किञ्चिदपि नास्ति खलु। एका लङ्का तस्या रक्षाभूतं जनस्थानमेकं तस्य नाशाबकाया अपावृतं द्वार संवृतं राजन् तवैव सत्ताहानिः खलु । राक्षसाः राक्षसराजस्प तब तन्नाशे राजत्वं नाशितं किल । बहवः एकद्वित्रिनाशेपि हानिर्भवत्येव किमुत बहूनां नाशेSI हताः मारिताः नतु सपाणाः । सर्वराक्षसनाशे खरेण किं कतमित्यत्राह खरश्चेति । चकारेण दूषणत्रिशिरसावुच्यते । कथंचिदहमागतः श्रीवेपेणेति भावः । श्रीवधं 5 शङ्कमानेन एका कथश्चिन्मुक्ताहमिति शूर्पणखावाक्यानुरोधात् ॥२॥ एवमिति । क्रुद्धत्वं नारोपितमिति ज्ञापयितुं संरक्तलोचन इत्युक्तम् । कोपातिरेकं दृष्टान्त मुखेनाइ-निर्दहन्त्रिवति ॥३॥ केनेति । परा गताः असवः प्राणाः यस्य तेन परासुनेति परुषभाषणमात्रम् । गम्यत इति गतिः स्थानम् ॥ ४॥५॥ कालस्यापि काल इत्यत्रोपपत्तिमाह मृत्युमिति ॥ ६॥ खरश्चेति चकारेण दूषणत्रिशिरसौ संगृहीतौ । कथविदहमागतः केवलं प्रेक्षकतया स्थितत्वाद्रामशराविषयीकृत इत्यर्थः ॥२॥३॥ परासुना मुम्र्पूणा । क को वा For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy