________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवृद्धनिद्रे दीर्घनिद्रे । अशरण्यानाम् ऋष्यादीनामगतीनाम् । शरण्याः सुखावासभूताः ॥ ८ ॥ इतस्थाने हतराक्षसावस्थानसन्निवेशे ॥ ९ ॥ पूर्वमन्य भयावहाः राक्षस्यः अद्य मद्भूयात् जनस्थानात् । विप्रसरिष्यन्ति पलायिष्यन्ते ॥ १० ॥ अद्येति । यासां त्वमीदृशः पापी पतिः ताः पत्न्यः अनुरूप कुलाः त्वत्सदृशदुर्वृत्ता इत्यर्थः । इतः पूर्व शोकानभिज्ञा अपि अद्य शोकरसज्ञाः, निरर्थकाः निर्गतकाम पुरुषार्थाः भविष्यन्ति ॥ ११ ॥ ईदृश इत्युक्तं प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने । भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥ ८ ॥ जनस्थाने हतस्थाने तव राक्षस मच्छरैः । निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥९॥ अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः । बाष्पाद्रवदना दीना भयादन्यभयावहाः ॥ १० ॥ अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः । अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ ११ ॥ नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक । यत्कृते शङ्कितैरनौ मुनिभिः पात्यते हविः ॥ १२ ॥ तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे । खरो निर्भर्त्सयामास रोषात्खरतरस्वनः ॥ १३ ॥ दृढं खल्वलिप्तोऽसि भयेष्वपि च निर्भयः । वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुद्धयसे ॥ १४ ॥ कालपाश परिक्षिप्ता भवन्ति पुरुषा हि ये । कार्याकार्ये न जानन्ति ते निरस्तषडिन्द्रियाः ॥ १५ ॥
विवृणोति नृशंसेति । नृशंस घातुक ! नीच वृत्ततो हीन ! क्षुद्रात्मन् क्षुद्रबुद्धे ! ब्राह्मणकण्टक ब्राह्मणशत्रो ! मुनिभिः यत्कृते यन्निमित्तं शङ्कितैः सद्भिः अग्नौ हविः पात्यते हविर्दानसमयेपि किमेतदपहरिष्यन्तीति भीता भवन्तीत्यर्थः ॥ १२ ॥ १३ ॥ अवलिप्तोऽसि गर्वितोऽसि । दृढं निश्चितम् । ततः कारणात् । भयेषु भयकारणेषु सत्स्वपि निर्भयोऽसि । वाच्यं चावाच्यं च वाच्यावाच्यम् “येषां च विरोधः शाश्वतिकः” इति द्वन्द्वैकवद्भावः । तत् मृत्यु वश्यः सन् न बुध्यस इति योजना ॥ १४ ॥ उक्तमर्थं विशिष्य दर्शयति- कालेति । परिक्षिप्ताः बद्धाः निरस्तपडिन्द्रियाः निरस्तषडिन्द्रिय प्रबद्धनिद्रेति पाठः । प्रबद्धनिद्रे प्रकर्षेण बद्धा दीर्घभूता निद्रा यस्य तस्मिन् । शरण्यानां स्वतपोमहिम्ना सर्वजन शरण्यानां मुनीनां शरण्या वासयोग्या भविष्यन्ति | ॥८॥ हतस्थाने हतराक्षससन्निवेशे ॥९॥ विप्रसरिष्यन्ति जनस्थानाद्विद्रविष्यन्तीत्यर्थः ॥ १० ॥ निरर्थकाः निर्गतोऽर्थः कामादिपुरुषार्थी घासां ताः । अनुरूपं त्वत्सदृशं कुलं यासां ताः अनुरूपकुलाः । पतिरीदृशः पापकर्मेत्यर्थः ॥ ११ ॥ यत्कृते यन्निमित्तम् । शङ्कितैः त्वद्विनं शङ्कितैः मुनिभिरम्रो दविः पात्यते क्षिप्यते ॥ १२-१४ ॥ कालपाशपरिक्षिप्ताः बद्धाः। निरस्तषडिन्द्रियाः निर्गतज्ञानेन्द्रियान्तःकरणव्यापाराः । तमेवमित्यादिश्लोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु एवं ब्रुवाणं
For Private And Personal Use Only