________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.पसार्वविभक्तिकस्तसिः॥२६॥२७॥ व्याली पन्नगी ॥२८॥ इति श्रीगोविन्द श्रीरामायण रत्नमे आरण्यकाण्डव्याख्याने एकोनत्रिंशः सगः ॥२९॥3टी.आ.का. ॥७३॥ M निरस्तनिखिलालम्बमहङ्कारमिव स्थितम् । खरं निहत्य साधूनां सुखावहमहं भजे ॥ भित्त्वा वित्यादि । धर्मवत्सल इत्यनेन निरायुधवषोऽनुचित
इति श्रीरामोऽमन्यतेति गम्यते । स्मयमानः परिहसन्नित्यर्थः । संरब्धं प्रान्तमिति खरविशेषणम् । “संरम्भः सम्भ्रमे कोपे” इत्यमरः॥१॥२॥ अभि ।
सा विकीर्णा शरैर्भग्ना पपात धरणीतले। गदा मन्त्रौषधबलैयालीव विनिपातिता ॥ २८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्रिंशः सर्गः ॥२९॥ भित्त्वा तु तां गदा बाणै राघवो धर्मवत्सलः । स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ १॥ एतत्त बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ॥२॥ एषा बाणविनिर्भिन्ना गदा भूमितलं गता। अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ॥३॥ यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम्। राक्षसानां करोमीति मिथ्या तदपि ते वचः॥४॥ नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः। प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥५॥ अद्यते छिन्नकण्ठस्य फेनबुबुदभूषितम् । विदारितस्य मद्वाणैर्मही पास्यति शोणितम् ॥६॥ पांसुरूषितसर्वाङ्गः
स्रस्तन्यस्तभुजद्रयः। स्वप्स्यसे गां समालिङ्गय दुर्लभ प्रमदामिव ॥ ७॥ धाने वचसि । प्रगल्भस्य धृष्टस्य । प्रत्यरिघातिनीति वीप्सायां प्रतिः । अरीनरीन् प्रतिपातिनी गदा ॥३॥४॥नीचस्य केवलवाचाटकत्वेन क्षुद्रस्य। क्षुद्रशीलस्य हीनस्वभावस्य । मिथ्यावृत्तस्य असद्वृत्तस्य ॥५॥ फेनबुहुदाभ्यां भूषितम् अलंकृतम्, अनेन नूतनत्वमुक्तम् । विदारितस्य विदारितो दरस्य ॥६॥ पांसुरूपितेति । रूषितं लिप्तम् । सस्तं यथा तथा भुवि न्यस्तं भुजद्वयं येन । गां भूमि समालिङ्गयेत्यनेनावाग्भूतत्वमुच्यते ॥७॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकोनविंशः सर्गः ॥२९ ॥१॥२॥ एषेति । अभिधानेति अभिधानप्रगल्भस्य मोढवाददक्षस्य । प्रत्ययघातिनी विश्वासघातिनी (तषप्रत्ययघातिनीतिपाठः)॥३-७॥
॥७
॥
For Private And Personal Use Only