________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥७४॥
स० ३०
बा.रा.भू. व्यापाराः ॥ १५ ॥ एवमिति । भ्रुकुटीं संरुद्धय कृत्वेत्यर्थः । प्रहरणस्यार्थे आयुधार्थ सर्वतोऽवलोकयन् सन्नपि दूरे महासालं ददर्शेत्यन्वयः ॥१६॥ दशन टी.आ.क. च्छदम् अधरम् । सन्दश्य निपीड्य, अनेन सालस्य दुर्ग्रहत्वमुक्तम् । बाहुभ्यामित्यनेन सालस्थौल्यमुक्तम् । विनद्येत्यादिना जयाशोच्यते ॥ १७ ॥ १८ ॥ रोषमिति सर्वसामग्रीविरहे प्यानुकूल्यलेशाभावादिति भावः ॥ १९ ॥ जातस्वेद इति रोषाज्जातवेदः नतु श्रमात् । रक्तान्तलोचनः रक्तवर्णापाङ्गः ॥२०॥ एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः । स ददर्श महासालमविदूरे निशाचरः । रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ॥ १६ ॥ स तमुत्पाटयामास सन्दश्य दशनच्छदम् । तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ॥ १७ ॥ राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ १८ ॥ तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् । रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ॥ १९ ॥ जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः । निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥ २० ॥ तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् । गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ॥ २१॥ विह्वलः स कृतो बाणैः खरो रामेण संयुगे । मत्तो रुधिरगन्धेन तमेवाभ्यद्रवदद्भुतम् ॥ २२ ॥ तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् । अपासर्पत् प्रतिपदं किञ्चित्त्वरितविक्रमः ॥ २३ ॥
बाणान्तरात् बाणक्षतविवरात् । फेनिलं फेनवत् । प्रखवणस्य प्रस्त्रवणाख्यस्य । परिस्रवः प्रवाहः ॥२१॥ विह्वलः विकवः । रुधिरगन्धेनोपलक्षितः ॥२२॥ | तमापतन्तमिति । संख्धं सम्भ्रान्तं प्रतिपदम् अस्त्रमोचनप्रतिकूलं तं खरं किञ्चिदपासर्पत् पश्चादागतः तस्मादपासर्पदित्यर्थः । अपसर्पणनिमित्त रामं मृत्युवश्यः खरः हे राम त्वं वाच्यावाच्यं न बुद्धयस इति दृढमवलिप्तोसीति च निर्भर्त्सयामासेति च सम्बन्धः । एवं निर्भर्त्सने हेतुमाह कालपाशेति । लोके कालपाशपरिक्षिप्ताः पुरुषाः महात्मानमपि निर्भर्त्सयन्त्येवेति भावः ॥ १५ ॥ भ्रुकुटिं संरुद्धय संनिबद्धय । प्रहरणस्यायें आयुधस्यायें ॥ १६ ॥ दशनच्छदम् अध रम् ॥ १७ ॥ तमिति हत इत्यब्रवीत्। वस्तुतस्तु त्वं इतः मया ज्ञात इत्यब्रवीत् ॥ १८ ॥ १९ ॥ जातवेदः रोषादुत्पन्नस्वेदः ॥ २० ॥ बाणान्तरात् वाणक्षतविव रात् । प्रस्रवणस्य प्रस्रवणाख्यस्य । तोयधारापरिस्रवः तोयधारापरिस्रवणमिव ॥ २१ ॥ विह्वलः विकटः रुधिरगन्धेनोपलक्षितः ॥२२॥ संरब्धम् अतिक्रुद्धम् | आप तन्तं बाणक्षेपणानवकाशतया अतिसन्निकृष्टम् उपरि आपतन्तं खरं दृछ्रेति शेषः । कृताखः शिक्षितानः रामः त्वरितविक्रमः शस्त्रसन्धानावकाशार्थं त्वरितपाद
For Private And Personal Use Only
॥ ७४ ॥