________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
नचिरादित्येकं पदम् । अविलम्बेनेत्यर्थः । अत्र पुरुष इति शेषः । पापानाम् अत्युत्कटानामित्यर्थः ॥९॥ एवं मृदुपूर्वमुक्त्वा परुषमाहपापमित्यादिना । आसादितःप्राप्तोऽस्मि । आगमने हेतुमाह राज्ञेति ॥ १०॥ मया मुक्ताः शराः त्वां विदार्य निपतिष्यन्ति प्रवेक्ष्यन्ति । यथा पन्नगाः सर्पाः वल्मीकं प्रविशन्ति तथा ॥११॥ ताननुगमिष्यसीति पापिनामपि समरे हतानां - स्वर्गसम्भवादिति भावः ॥ १२॥ निरयस्थं नरकसदृशं दुःखं
नचिरात प्राप्यते लोके पापानां कर्मणां फलम् । सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ ९॥ पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् । अहमासादितो राज्ञा प्राणान हन्तुं निशाचर ॥ १०॥ अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः । विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥११॥ ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः । तानद्य निहतः सङ्घये ससैन्योऽनुगमिष्यसि ॥ १२॥ अद्य त्वां पतितं बाणेः पश्यन्तु परमर्षयः । निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ १३॥ प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम । अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ १४॥ एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः । प्रत्युवाच खरो रामं प्रहसन् क्रोधमूञ्छितः॥ १५॥प्राकृतान राक्षसान हत्वा युद्धे दशरथात्मज । आत्मना कथमात्मानमप्रशस्यं प्रशंससि
॥ १६ ॥ विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः। कथयन्ति न ते किञ्चित्तेजसा स्वेन गर्विताः ॥ १७॥ भूमौ पतित्वानुभवन्तमित्यर्थः ॥ १३ ॥ तालफलं ययेत्यनेनानायासोक्तिः ॥१४॥१५॥ आत्मना स्वयमेव ॥ १६ ॥ तेजसा प्रतापेन ॥ १७॥ पालभते, ऋतुकाललक्षणे काले प्राप्ते आर्तवं तत्तहतुप्रयुक्तं पुष्पमिव ॥ ८॥ नचिरादित्येक पदम् । अविलम्बेनेत्यर्थः ॥९॥ राजा दशरथेन भरतेन वा । आसा
दितः नियुक्तः ॥१०॥ भित्वा तद्वपुरिति शेषः । विदार्य भूमिमिति शेषः । निपतिष्यन्ति भूमि भित्वा गमिष्यन्तीत्यर्थः ॥ ११॥ ये धर्मचारिणः ताननु गमिष्यतीत्यनेन पापिनामपि स्वेन हतानामुत्तमलोकप्राप्तिरस्तीत्युक्तं भवति । टी०-दुक्त कान्दे-"रामविद्धा निशिचरा: बाणिमर्मसु ताडिताः । राममासाथ समरे मायुष्षपदवीं गताः " ति ॥ १२ ॥ पतितं दुर्दशा प्राप्य भूमौ पनितम् ॥ टी०-निरपस्थ दुर्दशा प्राप्तम् ॥ १३-१७ ॥
For Private And Personal Use Only