________________
Shri Mahavir Jan Aradhana Kendra
www.kabatisth.org
Acharya Shri Kaliassagarsun Gyarmandie
टी.आ.कां.
१७२॥
स०२९
प्राकृताः क्षुद्राः। अकृतात्मानः अप्रतिष्ठितधृतयः । क्षत्रियपासनाः क्षत्रियाधमाः । निरर्थकं निष्प्रयोजनं यथा तथा विकत्यन्ते श्वाषन्ते ॥१८॥ कुलं व्यपदिशन् आत्मनो महाकुलप्रसूतत्वं प्रकटयन् । को वीरः मृत्युकाले सम्प्राप्ते अप्रस्तवे अनवसरे स्वयं स्तवमभिधास्यतीत्यन्वयः ॥१९॥ 'सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशामिना।' इति ते कत्थनेन लघुत्वमल्पत्वं सर्वथैव स्परमेव विदर्शितम् । यथा तप्तेन ।
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः। निरर्थकं विकत्यन्ते यथा राम विकत्थसे ॥ १८॥ कुलं व्यपदिशन वीरः समरे कोऽभिधास्यति । मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ॥ १९॥ सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशामिना ॥२०॥ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् । धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥२१॥
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ २२॥ अत एव सुवर्णसदृशेन कुशामिना कुशदर्भमाश्रितेनाग्निना लघुत्वं विदर्यते तद्वत् । यथा तृणाग्निः सुवर्णतुल्यतया भासमानोपि ज्वलनप्यु त्तरकाले दाहकार्यकरो न भवति तथा कत्थनेन वीरवद्भासमानोपि पुरुषः उत्तरकाले लघुरेख भविष्यतीत्यर्थः । शीघ्र ज्वलन् तृणाग्निः यथा सद्यः। शान्तो न दग्धुमीष्टे तथा कत्थमानः पुरुषः स्वकत्थनानुरूपं कार्य न करोतीति सिद्धमिति ॥२०॥ इह तव पुरतः। तिष्ठन्तं निश्चलतया स्थितम् । गदाधरं शत्रुरतोक्षितगदावन्तम् । मां सर्वनिर्वाहकं पर्वतमिवाकम्प्यं न पश्यसि, अत एवैवं कत्थस इति भावः ॥२१॥ गदापाणिरई पाशहस्तोऽन्तक इव अकृतात्मानः कल्मषचित्ताः ॥१८॥ कुलं व्यपदिशन कुलीनत्वं प्रकटयन् । मृत्युकाले तत्तुल्ये समरे संप्राप्ते सति । अप्रस्तवे स्तव को वाभिधास्पति को वा आत्मप्रशंसा करोतीत्यर्थः ॥१९॥ सुवर्णप्रतिरूपेण सुवर्णसाशेन । तप्तेनेवाश्मनामिना-अग्निना अग्निवर्णेन । अश्मना पाषाणेन न तप्यते, वस्त्विति शेषः । सुवर्णवर्णमश्मानं दृष्ट्वा अयमनार इति स्तुत्या व्यपदिशन्ति तथापि तेनामिना वस्तु न तप्यते किन्तु मुख्येनेवाग्निना तप्यत इत्यर्थः । एतदुक्तं भवति अग्निबुध्या अग्निवर्णमश्मानं स्पृशते पुरुषायानुपलभ्यमानाष्णस्पर्शनात्मना । आत्मनोऽनमित्वं नाम लघुत्वं यथा विदर्शितं भवति तथा ते त्वया त्या वीरम्मन्धानाय मह्यं कत्थनेनात्मप्रशंसया अवीरत्वं नामात्मनो लघुत्वं विदर्शितमित्यपेक्षितपदाध्याहारेण योजना । तप्तेनेव कुशाग्निनेति पाठे त्वयमयर्थः-कुशाग्निना सुवर्णशोधकाग्निना तप्तेन सुवर्ण प्रतिरूपेणारकूटेन लघुत्वं कार्यकर्ष यथा विदर्शितं भवति तथा ते त्वया कत्यनेनात्मप्रशंसया लघुत्वमशूरत्वं प्रदर्शितं भवतीति ॥२०॥ नवित्यादिमा
For Private And Personal Use Only