SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir युगाधारदण्डः । प्रहसन्निव लीलयेत्यर्थः ॥२९-३१॥ अवप्लुत्य रथात् समुल्लङ्घय ॥३२॥ तत्कर्म खरभङ्गकर्म । अपूजयन् अस्तुवन् । समत्य समूही भूय । समेताः आगताः॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टाविंशः सर्गः ॥२८॥ त्रिभित्रिवेणुं बलवान द्वाभ्यामक्षं महाबलः । द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ ३०॥ छित्त्वा वजनिकाशेन राघवः प्रहसन्निव । त्रयोदशेनेन्द्रसमो विभेद समरे खरम् ॥ ३१ ॥ प्रभग्नधन्वा विरथो हताश्वो हतसारथिः। गदा पाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ ३२ ॥ तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । अपूजयन् प्राञ्जलयःप्रहृष्टास्तदा विमानाग्रगताः समेताः ॥३३॥ इत्यारे श्रीरामा०श्रीमदारण्यकाण्डे अष्टाविंशःसर्गः॥२८॥ खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्व महातेजाः परुषं वाक्यमब्रवीत् ॥ १॥ गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥२॥ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥३॥ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर। तीक्ष्णं सर्वजनो हन्ति सर्प दुष्टमिवागतम् ॥ ४ ॥ अहङ्कारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । गदा खरस्य निर्भिय राजन्तं राममाश्रये ॥ सर्वसाधनवैकल्येन खरस्यानुकूल्यमपि भवेदिति तचित्तपरीक्षार्थमाह-खरं त्वित्यादिना । मृदुपूर्व न्यायावलम्बनेनोक्तम् । परुष मर्मोहाटनरूपत्वात् ॥१॥ तिष्ठता अधिपतित्वेन तिष्ठतेत्यर्थः ॥२॥ मृदुपूर्वत्वसिद्धये लोकन्यायमाह-उद्धेजनीय इति । उद्धेजनीयः उद्धेजकः । नृशंसो घातुकः एवंविधो लोकानामीश्वरोपि न तिष्ठति न जीवेत् किं पुनर्भवाद्दश इति भावः ॥३॥ सर्वजन इति दयालुरपीति भावः ॥ ४॥ क्रिया सर्वत्र सम्बन्ध्यते (त्रिवेणुबलवानिति पाठः) ॥ २९-३२ ॥ रामस्य तत्कर्म समेत्य दृष्ट्वा देवादयस्तम् अपूजयन, नमस्कारस्तुत्यादिभिरतोषयन्नित्पर्यः Kalu ३३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टाविंशः सर्गः ॥ २८ ॥ खरमिति । मृदुपूर्व मुक्तिपूर्वम् । परुषं कर्णकठोरमित्यर्थः ॥ १ ॥ बले तिष्ठता बलविषयस्वामित्वेन तिष्ठता त्वयेत्यर्थः ॥ २॥ भूतानामुद्वेजनीयः उद्वेगकरः। नृशंसः घातुका एवंविधव For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy