SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ६६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निमीलित इवर्षभ इत्यनेन शरवर्षेपि निर्व्यथत्वमनायासत्वं च द्योत्यते ॥ ४ ॥ क्रोधसमाविष्ट इति राम इति शेषः । प्रदीप्त इव तेजसेति तंजोयुक्त त्वेन प्रदीप्त इव स्थित इत्यर्थः । सहदूषणं दूपणसहितम् । दूषणः खरस्य सेनापतिः ॥ ५ ॥ ६ ॥ तत इति । चतुर्भिरिति शरैरित्यनुषङ्गः ॥ ७ ॥ हवेति । तद्रक्षः दूषणं वक्षसि विव्याधेति सम्बन्धः ॥ ८ ॥ परितो हन्यतेऽनेनेति परिषः तम् । पट्टेः बन्धनैः । परवसोक्षितं शत्रुमेदस्सिक्तम् । प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः । रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ॥ ४ ॥ ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा । शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् ॥ ५ ॥ ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः । शरैरशनिकल्पैस्तं राघवं समवाकिरत् ॥ ६ ॥ ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद्धनुः । चिच्छेद समरे वीर चतुर्भिश्चतुरो हयान् ॥७॥ हत्वा चाश्वान शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः । शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि ॥ ८ ॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ॥ ९ ॥ वेष्टितं काञ्चनैः पद्वैर्देवसैन्यप्रमर्दनम् । आयसैः शङ्कभिस्तीक्ष्णैः कीर्ण परवसोक्षितम् ॥ १० ॥ वज्राशनिसमस्पर्श परगोपुरदारणम् ॥ ११ ॥ तं महोरगसङ्काशं प्रगृह्य परिघं रणे । दूषणोभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥ १२ ॥ तस्याभिपतमा नस्य दूषणस्य स राघवः । द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ १३ ॥ "हृन्मेदस्तु वपा वसा " इत्यमरः । वज्राशनिसमस्पर्श वज्रं वज्राख्यरत्नम् । अशनिः वज्रायुधम् तदुभयसदृश काठिन्यम् । परगोपुरदारणं परेषां शत्रूणां यत् गोपुरं पुरद्वारं तस्य दारणं भेदकम् । “पुरद्वारं तु गोपुरम् " इत्यमरः ॥ ९-१२ ॥ तस्येति । अभिपतमानस्य अभिपततः । प्रतिजग्राह अवरुरोध ॥१- १०॥ वज्राशनिसमस्पर्श व्रजति यात्येव न प्रतिहन्यत इति वज्रम, अश्नाति शत्रुजीविनमित्यशनिः । तदुभयसमस्पर्शम् ॥११- १३॥ टी०-परवसोक्षितं वसानम् ॥ १० ॥ परगोपुरदारणं सुरपुरद्वारमेदकम् ॥ ११ ॥ For Private And Personal Use Only टी. आ. कां. स० २६ ॥ ६६ ॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy