________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सहस्ताभरणावित्यनेन शौर्यविरुदवत्त्वं लक्ष्यते ॥१३॥ रणमूर्धनि छिन्त्रहस्तस्य तस्य दूषणस्य भ्रष्टः इस्ताच्च्युतः महाकायः महाप्रमाणः परिषः शकध्वज इवाग्रतः पपातेत्यन्वयः ॥ १४॥ स इति । कराभ्यां सह पपातेत्यन्वयः। मनस्वी धीरः॥१५॥तमिति । अपूजयन् अस्तुवन् ॥१६॥१७॥ भ्रष्टस्तस्य महाकायः पपात रणमूर्द्धनि । परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ १४ ॥ स कराभ्यां विकी
र्णाभ्यां पपात भुवि दूषणः। विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ १५॥ तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे । साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥१६॥ एतस्मिन्नन्तरे क्रुद्धात्रयः सेनाग्रयायिनः। संहत्या भ्यद्रवन राम मृत्युपाशावपाशिताः ॥ १७॥ महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलं शूलमुधुम्य राक्षसः। स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ॥ १८॥ दृष्ट्वैवापततस्तूर्ण राघवः सायकैः शितैः । तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव ॥१९॥ महाकपालस्य शिरश्चिच्छेद परमेषुभिः।असङ्ख्ययैस्तु बाणौधैः प्रममाथ प्रमाथिनम् ॥२०॥ स पपात हतो भूमौ विटपीव महाद्रुमः । स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ॥२१॥ दूषणस्यानुगान् पञ्चसाहस्रान कुपितः क्षणात् । बाणौषैः पञ्चसाहस्रैरनयद्यमसादनम् ॥२२॥ दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् । व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् ॥ २३ ॥ अयं विनिहतः
सङ्ख्ये दूषणः सपदानुगः। महत्या सेनया साध युध्वारामं कुमानुषम् ॥२४॥ रात्रीनेवाह-महाकपाल इति । कः किमायुधं गृहीत्वाऽभ्यद्रवदित्यवाह-महाकपाल इति ॥ १८॥ दृष्ट्वेति । शितैः शाणोल्लीः । प्रतिजग्राह तेषु बाणा
नर्पयामासेत्यर्थः । यथा गृहं प्राप्तानतिथीनुपचारैः प्रतिगृह्णाति तथेत्यर्थः ॥ १९॥ प्रतिजग्राहेत्युक्तं विवृणोति-महाकपालस्येत्यादिना । प्रममाथ चूणींचकारेत्यर्थः ॥ २०॥ चूर्णशरीरत्वे दृष्टान्ततयोक्तं विटपीति ॥२१-२३ ॥ अयमिति । हनध्वं प्रत ॥२४॥२५॥ छिन्त्रहस्तस्य तस्यामतः परिधः पपातेत्यनुपज्यते ॥१५॥१५॥ अपूजयन् अस्तुवन ॥१६॥ संहत्य मिलित्वा ॥ १७-२१॥ पवसाहरणिरित्यध्याहार्यम् ॥ २२-२८॥ स०-मानुषं को भूमौ मनभ्याकार प्राप्तम् ॥ २४ ॥
For Private And Personal Use Only