SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कृताः। भिन्नाः खण्डितावयवाः । विदारिताः नृसिंहेन हिरण्यवदानाभिकण्ठमुद्भिन्नशरीराः। तत्र तत्रेत्यनेन कश्चिद्भिन्नः कश्चिद्विदारितः पुनः कश्चित् ॥ भिन्नः इत्येवं विचित्रशववत्त्वमुक्तम् ॥४१॥ चित्रवधं दर्शयति-सोष्णीषैरित्यादिना । सोष्णीषैः शिरोवेष्टनवद्भिः । उत्तमाङ्गै केवलशिरोभिः । नानारूप विभूषणरित्यूरुजानूनां विशेषणम् । सा|मकैरूरुभिः सकटकैर्जानुभिश्चेत्यर्थः । अनेकशी भिन्नरिति हयादित्रयविशेषणम्। विच्छिन्नरिति चामरादिसर्व सोष्णीषैरुत्तमा.श्च साङ्गदैर्बाहुभिस्तथा । ऊरुभिर्जानुभिश्छिन्नानारूपविभूषणैः ॥४२॥ हयैश्च द्विपमुख्यैश्च स्थैभिन्नैरनेकशः । चामरैर्व्यजनैश्छत्वैर्ध्वजनानाविधैरपि ॥४३॥ रामस्य बाणाभिहतैर्विचित्रैः शुलपट्टिशैः । खडैः खण्डीकृतैः प्रासैविकीर्णेश्च परश्वधैः॥४४॥ चूर्णिताभिःशिलाभिश्च शरैश्चित्रैरनेकशः। विच्छिन्नःसमरे भूमिः विकीर्णाऽभूद्भयंकुरा ॥ ४५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदि० श्रीमदारण्यकाण्डे पञ्चविंशः सर्गः ॥२५॥ दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः। संदिदेश महाबाहुर्भीमवेगान् दुरासदान् । राक्षसान पञ्च साहस्रान् समरेष्वनिवर्तिनः॥१॥ ते शूलैः पट्टिशै खङ्गैः शिलावर्षमैरपि । शरवर्षेरविच्छिन्नं ववृषुस्तं समन्ततः॥२॥ स द्रुमाणां शिलानां च वर्ष प्राणहरं महत् । प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ॥३॥ विशेषणम्, विचित्रेरिति शूलादिविशेषणम्, नानाविधैरिति चामरादिविशेषणम्, पूर्वोक्तैरतेर्विकर्णाि अत एव भयङ्कराऽभूदिति योजना । एतावता ग्रन्थेन रामशरप्रभावातिशयो दर्शितः। अस्मिन् सर्गे पञ्चचत्वारिंशच्छोकाः॥४२-४५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ अथ दूषणप्रमुखसर्वसैन्यविनाशः षडविंशे-दूषणस्त्वित्याद्यर्धत्रयमेकं वाक्यम् । निरीक्ष्य चेति खिन्न । श्वेत्यर्थः । भीमवेगान भयङ्करधावनान् अत एव दुरासदान् । पञ्चसहस्रानित्यनेन पञ्चसाहस्री पूर्व इतेति व्यज्यते ॥१॥ त इति । तं रामम् ॥२॥स इति । प्राणहरम अन्येषामिति शेषः । प्रतिजग्राह प्रतिरुरोध । धर्मात्मेत्यनेन कूटयोधित्वव्युदासः॥३॥ सोष्णीषैः शिरोवेष्टनसहितैः ॥४२-४५॥ इति श्रीमहे श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चविंशस्सर्गः ॥२५॥१॥ तं रामम् ॥२॥ स राघवः स०-पश्चसाहसान् "शतमानविंशतिक-" इत्यण् । सहसाणीति वक्तव्ये यासाहलानिति कथनं तेन महलैः अस्साहितास्साहस्रास्तान, कुशलपुरुषसहितानिति यावत् । "हलो मूलें विदूषके" इति संसारावर्तः ॥१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy