SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir www.kobatirth.org विषेदुरिति । बहुभिः सहस्रैः चतुर्दशसहस्रः ॥ १५ ॥ तत इति।मण्डलीकृतकार्मुकः आकर्णाकर्षणेन मण्डलाकारीकृतधनुः । विशिखान् बाणान् .टी.आ.का. अर्धचन्द्रामबाणान् । प्रथमं शतशः अनन्तरं सहस्रशः स निर्बिभेदेति योजना ॥ १६ ॥ दुरावारान् वारयितुमशक्यान् । दुर्विषहान् दुःसहान् । स०२५ विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः । एक सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ॥ १५ ॥ ततो रामः सुसंकुद्धो मण्डलीकृतकार्मुकः । ससर्ज विशिखान बाणान शतशोथ सहस्रशः ॥ १६॥ दुरावारान् दुर्विषहान् कालदण्डो पमान रणे । मुमोच लीलया रामः कङ्कपत्त्रानजिह्मगान् ॥ १७॥ ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया। आददू रक्षा प्राणान् पाशाः कालकृता इव ॥१८॥ भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः।अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः॥ १९॥ असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् । विनिष्पेतुरतीवोया रक्षःप्राणापहा रिणः ॥ २०॥ तैर्धषि ध्वजाग्राणि वर्माणि च शिरांसि च । बाहून सहस्ताभरणानूरून करिकरोपमान् । चिच्छेद रामः समरे शतशोथ सहस्रशः ॥२१॥ हयान काञ्चनसन्नाहान स्थयुक्तान ससारथीन् । गजांश्च सगजारोहान सहयान सादिनस्तथा ॥ २२॥ पदातीन समरे हत्वाह्यनयद्यमसादनम् ॥२३॥ कालदण्डोपमान यमदण्डतुल्यान् । अजिह्मगान् अवक्रगामिनः, अस्खलितलक्ष्यकानित्यर्थः । कङ्कपत्रान् बाणान् । “कङ्कपत्रशरमार्गणबाणाः। इति हलायुधः ॥ १७॥ ते शरा इति । प्राणानाददुः अमारयन्नित्यर्थः। कालकृताः यममुक्ता इत्यर्थः ॥ १८ ॥ रुधिराप्लुता इति विशेषणं| दीप्ताग्न्युपमासिद्धयर्थम् ॥ १९ ॥ असङ्ख्यया इति । सायकाः बाणाः ॥ २०॥ तैरित्याद्यर्धत्रयमेकं वाक्यम् । वर्माणि कवचानि ॥२१॥ हयानिति । काञ्चनसन्नाहान काञ्चनाभरणान् । रथयुक्तान रथबद्धान्। सगजारोहान् सनिषादान् । सादिनः अश्वारोहान् । सदनमेव सादनम् । स्वार्थे अण ॥२२॥२३ ॥६॥ क्षतजं रक्तम् ॥ १४ ॥ १५॥ विशिखान बाणान माणसंज्ञान शरान् “ बाणास्तु गतपत्रिणः" इति बैजयन्ती ॥१६॥ दुरावारान अशक्यनिवारणान । दुर्विषहान , सोडुमशक्यान । कपत्रान् कङ्कपत्रसंज्ञान शरान । अजिह्मगान अकुटिलगतीन, अस्खलितल्टक्ष्यानित्यर्थः ॥१७-२१॥ काचनसनाहान कावनपरिकरान । सादिनः । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy