SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir निष्पतितं युद्धोन्मुखम् । सचिवाः इयेनगाम्यादयः॥४॥ लोहिताङ्गः अङ्गारकः ॥५॥अर्दयित्वा पीडयित्वा महानादं ननाद चकारेत्यर्थः ॥६॥ भीमधन्वानम् । “ धनुषश्च" इत्यनङ् समासान्तः । शस्त्रैः आयुषैः । “शस्त्रमायुधलोहयोः” इत्यमरः॥ ७॥ मुद्गरैः स्थूलगदाभिः । प्रासैः कुन्तैः तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः । नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ ४॥ स तेषां यातुधानानां मध्ये स्थगतः खरः। बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः॥५॥ ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः ॥६॥ ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः । राम नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥७॥ मुद्गरैः पट्टिशैःशूलैः प्रासैः खङ्गः परश्वधैः । राक्षसाः समरे रामं निजनू रोषतत्पराः ॥८॥ ते बलाहकसङ्काशा महानादामहौजसः । अभ्यधावन्त काकुत्स्थं स्थैर्वाजिभिरेव च । गजैः पर्वतकूटाभै राम युद्धे जिघांसवः ॥९॥ ते रामे शरवर्षाणि व्यसृजन रक्षसां गणाः । शैलेन्द्रमिव धाराभिर्वर्षमाणा बलाहकाः ॥१०॥ स तैः परिवृतो घोरै राघवो रक्षसां गणैः॥१३॥ तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः। प्रतिजग्राह विशिखै नद्योघानिव सागरः ॥१२॥ स तैःप्रहरणै|भिन्नगात्रो न विव्यथे। रामः प्रदीप्तैर्बहुभिर्वचैरिव महाचलः ॥१३॥ स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः । बभूव रामः सन्ध्याभ्रेर्दिवाकर इवावृतः ॥ १४ ॥ रोषतत्पराः क्रोधपरवशाः॥८॥त इति । बलाहकसाशाः मेघतुल्याः। कूटं शृङ्गम् ! अभ्यधावन्त आभिमुख्येनाधावन्त ॥९॥ते राम इति । शैलेन्द्रमिवेत्युपमानेन रामस्य निर्दुःखत्वमुक्तम् ॥ १०॥स तरित्यायधमेकान्वयम् ॥ ११ ॥ तानीति । विशिखैः बाणैः । प्रतिजग्राह प्रतिरोध । नद्योपान् नदीप्रवाहान् ॥ १२ ।। स तैरिति । वढः अशनिभिः॥ १३ ॥ स विद इति । क्षतजादिग्धः रुधिरालिप्तः ॥ १४ ॥ उकारान्तोऽप्यस्ति ॥ १-३॥ सचिवाः इयेनगाम्यादयः ॥ ४ ॥ लोहिताङ्गः भौमः ॥५-८ ॥ बलाहकाः मेघाः ॥ ९-११॥ तानि शस्त्राणि । स्वविशिखेः प्रति जग्राह अवरुरोध ॥ १२ ॥ ववैरिव महाचल इति व्यतिरेकदृष्टान्तः । बच्चैः बचनियातैः । अनयोपमया श्रीरामस्य न काचिदपि तत्कृतव्यथेति सूच्यते ॥ १३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy