________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
वा.रा.भू. ७ वितत्येति । वितत्य किञ्चिद्वाणविसर्पणं कृत्वेत्यर्थः । “ विततं संहितस्येषोः किञ्चिदेव विसर्पणम् ” इति वैजयन्ती । तूण्योः पृष्ठपार्श्वद्वयबद्धयोः ! ॥ ६३ ॥ आहारयदित्यनेन करुणामूर्तिरप्याश्रितकण्टकोद्धारणाय क्रोधमारोपयामासेति गम्यते, भीमं धनुरुद्धृत्य तृण्योः शरांश्चोद्धृत्य वितत्य सर्वरक्षसां वधार्थी वितत्य च धनुर्भीमं तूण्योश्चोद्धृत्य सायकान् । क्रोधमाहारयत्तीवं वधार्थं सर्वरक्षसाम् ॥ ३३ ॥ दुष्प्रेक्षः सोभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन्। तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः ॥ ३४ ॥ तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा । दक्षस्येव ऋतुं हन्तुमुद्यतस्य पिनाकिनः ॥ ३५ ॥ आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ॥ ३६ ॥ तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णेः । बभ्रुव सैन्यं पिशिता शनानां सूर्योदये नीलमिवाभ्रवृन्दम् ॥ ३७॥ इत्यार्षे श्रीरामायणे वाल्मी० श्रीमदारण्यकाण्डे चतुर्विंशः सर्गः ॥२४॥ अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरस्सरैः ॥ १ ॥ तं दृष्ट्वा सशरं चाप मुद्यम्य खरनिस्वनम् । रामस्याभिमुखं मृतं चोद्यतामित्यचोदयत् ॥ २ ॥ स खरस्याज्ञया मृतस्तुरगान् समचोद यत् । यत्र रामो महाबाहुरेको धन्वन् स्थितो धनुः ॥ ३ ॥
कोधमाहारयदित्यन्वयः ॥ ३३ ॥ ३४ ॥ दक्षस्येति क्रोधातिशयमात्रे दृष्टान्तः ॥ ३५ ॥ ३६ ॥ तदिति । कवचसूर्यकिरणयोः साम्यं नीलाभ्राणां रक्षसां च कार्मुकवत्त्वं ध्वजवत्त्वं च तुल्यं मेघे उत्पातध्वजसम्भवात् । अत्र सार्घसप्तत्रिंशच्ढोकाः ॥ ३७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्डकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥ तुमुलयुद्धं पञ्चविंशे-अवष्टब्धेत्यादि । धन्यत इति धनुः । " धन धान्ये " इत्यस्मा द्धातोः " भृमृशीतृचरितत्सरितनिधनिमिमस्जिभ्य उः" इत्यौणादिकसूत्रेण उप्रत्ययः । “धनुषां च धनुं विदुः, धनुरिवाजनि वकः" इति कविकाव्यप्रयोगश्च ॥ १ ॥ तमिति । चोद्यतामिति रथ इति शेषः ॥ २ ॥ ३ ॥
चारणाः ॥” इति ।। २६-३२ ॥ वितत्येति । धनुर्वितत्य आरोप्य । क्रोधमिति क्रोधमाहारयत् प्राप्तवान् ॥ ३३ ॥ तेजसाविष्टमिति रौद्रतेजसा सम्पन्नमित्यर्थः ॥ ३४-३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ २४ ॥ अवष्टब्धधनुं अवलम्बितशरासनम् । धनुःशब्द
For Private And Personal Use Only
टी.आ.को.
स० २५
॥ ६३ ॥