________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युद्धं भविष्यतीत्यन्तं पुनः प्रोचुरिति सम्बन्धः ॥२१ - २३ ॥ राजर्षयः देवत्वं प्राप्ताः । यद्वा वानप्रस्थीभूताः । सगणाः सपरिकराः ||२४|| आविष्टमिति । | सङ्ग्रामशिरसि युद्धाये || २५ || रामस्य रूपं रुद्रस्य रूपमिव बभूव ॥ २६ ॥ तत इति । निर्ह्रादः शब्दः । वर्म कवचम् । अनीकं सेना ॥ २७ ॥ सिंह इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः । जातकौतूलास्तस्थुर्विमानस्थाश्च देवताः ॥ २४ ॥ आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ॥ २५ ॥ रूपमप्रतिमं तस्य रामस्या किष्टकर्मणः । बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः ॥ २६ ॥ [ इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः ] ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् । अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत ॥ २७ ॥ सिंहनादं विसृजता मन्योन्यमभिगर्जताम् । चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः ॥ २८ ॥ विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् । तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ॥ २९ ॥ तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः । दुद्रुवुर्यत्र निःशब्दं पृष्ठतो न व्यलोकयन् ॥ ३० ॥ तत्त्वनीकं महावेगं रामं समुपसर्पत। धृतनानाप्रहरणं गम्भीरं सागरोपमम् ॥३१॥ रामोऽपि चारयन् चक्षुः सर्वतो रणपण्डितः । ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ॥ ३२ ॥ नादमित्यादि । अन्योन्यमभिगर्जताम् अहमेव शत्रुं हनिष्यामीति जल्पतामित्यर्थः । विस्फारयतां ज्याशब्दं कुर्वताम् । अभीक्ष्णशः भृशम्। जृम्भतां जृम्भमाणानां मदनोद्गच्छतामित्यर्थः । विप्रघुष्टस्वनानां घोषो गुञ्जनाख्यध्वनिविशेषः । “ घोषो गुञ्जनमञ्जने ” इति वैजयन्ती । भावे निष्ठा । तद्रूप | स्वनवतामित्यर्थः ॥ २८ ॥ २९ ॥ तेनेति । श्वापदाः हिंस्रा व्याघ्रादयः । यत्र निःशब्दं शब्दाभावः । “अव्ययं विभक्ति -" इत्यादिना अव्ययीभावः । | तं देशं दुद्रुवुरित्यन्वयः । पृष्ठतः पश्चाद्भागम् ॥ ३० ॥ समुपसर्पत समुपासर्पत् । गम्भीरम् इतरदुष्प्रवेशम् ॥३१॥ रामोऽपीति । उत्थितम् उद्युक्तम् ॥ ३२ ॥ मुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः ॥” इति ॥२१-२५॥ टी० - चक्रहस्तो विष्णुः ॥ २९ ॥ रूपमिति । रुद्रस्येव महात्मन इति पाठः । जगत्संहरणार्थ मुद्युक्तस्य प्रलयकालरुद्रस्य रूपं यद्वत्तद्वत् खरादिवधार्थमुद्युक्तस्य रामस्य रूपमपि बभूवेत्यर्थः । तदुक्तं स्कान्दे-" रुद्रतेजोविलसितं दृष्ट्वा रामकलेवरम् । श चक्रं च शूलं च पिनाकं खेटमेव च । खट्वां घण्टां च डमरुं वाणपाशाङ्कुशं तथा । चापं वज्रं च खङ्गं च परशुं त्रासकारणम् । जयश्रियं च गङ्गां च ददृशुः सिद्ध
1010
For Private And Personal Use Only