________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कर्षे अव्यवहितोत्तरकाले ॥७॥ स्वमुखप्रसादादेः स्वयं द्रष्टुमशक्यत्वेन स्वसमानसुखे लक्ष्मणे निदर्शयति-सप्रभमिति । मुखप्रसादफलं व्यतिरेकमुखे नाह उद्यतानामिति ॥ ८-१०॥ अनागतेति । आपदं निमित्तवशाच्छङ्कमानेन शुभम् आपत्परिहारम् । इच्छता विपश्चिता दूरदर्शिना पुरुषेण अनागत विधानम् अनागतस्य भाविनोऽनर्थस्य विधानं प्रतिविधानं कर्तव्यम् ।। ११ । तस्मादिति । गृहीत्वा रक्ष्यत्वेन गृहीत्वा । पादपसङ्घलां वृक्षावृताम् ॥१२॥
सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते। उद्यतानां हि युद्धाथै येषां भवति लक्ष्मण ॥ ८॥ निष्प्रभं वदनं तेषां भवत्यायुःपरिक्षयः ॥९॥ रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः । आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥१०॥ अनागतविधानं तु कर्तव्यं शुभमिच्छता। आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ ११॥ तस्मादगृहीत्वा वैदेही शरपाणिर्धनुर्धरः । गुहामाश्रय शैलस्य दुर्गा पादपसङ्घलाम् ॥ १२॥ प्रतिकूलितुमिच्छामि नहि वाक्य मिदं त्वया । शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम् ॥ १३ ॥ त्वं हि शरश्च बलवान् हन्यां ह्येतान्न
संशयः। स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥ १४ ॥ अहमेव योत्स्यामीति वक्तु मुद्यतं प्रत्याह-प्रतिकूलितुमिति । इदं वाक्यं प्रतिकूलितुं नेच्छामि । मया शापितोसीति वक्तव्ये मम पादाभ्यामित्युक्तिलक्ष्मण
व्यवहारानुसारेण ॥ १३ ॥ त्वनिवर्तनं न त्वदशक्त्या किन्तु मुनिभ्यः प्रतिज्ञानान्मयैव तद्वधः कर्तव्य इत्याशयेनाह-त्वं हीति ॥ १४ ॥ अन्तरं दर्शयति अयमिति । बाहुः कर्ता दक्षिण इति शेषः । सन्निकर्षे समीपे ॥ ७॥ न केवलं ममेव जयसूनकम, तवाप्यस्तीत्याह-समभमिति । युद्धार्थमुद्यतान'
येषामायुःपरिक्षयो भवति भविष्यति तेषां वदनं निष्प्रभ भवति, नैवमस्माकमिति भावः ॥ ८-१० ॥ अनागतस्प आगमिष्यतः अनिष्टस्येत्यर्थः । प्रतिविधानं परि हारः केनेत्यत आह आपदामिति ॥ ११॥ शैलस्य गुहाम्, आश्रमं हित्वेति शेषः । दुर्गामन्यैर्गन्तुमशक्याम् ॥ १२ ॥ इदं वाक्यं त्वया प्रतिकूलितुं प्रतिकूलयितुम नेच्छामि " समानकर्तृकेषु तुमन" इति । यद्यपि तथापि भोक्तुमनुजानातीतिवन कचिद्भित्रकर्तृकेष्वपि तुमुनिष्यते । प्रतिकूलितमिति पाठे त्वया प्रतिकूलितं 7
स०-इदं वाक्यं त्वया प्रतिकूलितुं नेच्छामीति भिन्नकर्तृकत्येषि भोक्तुमनुजानामीत्यादिवत्तुमुन् सम्भवति । यद्वा इदंत्वयेत्येकं वाक्यम् । अयं चासौ त्वं च इदंत्वं तेन प्रतिकूलितुम् । भवान् युक्त्या सह गछ। तति शङ्कामारोपयितुं वाक्यं नेच्छामीति पादाभ्यां शापितोसि । अतक्षिरं मा माकुरु । यहा इदं वाक्य विरमुत्तर प्रत्युत्तररूपं मा माकार्षीः ॥ १३॥
For Private And Personal Use Only