________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.कॉ.
॥६
॥
स.२५
अथ रामस्य युद्धसन्नाहश्चतुर्विशे-आश्रममित्यादि । औत्पातिकानिति स्वार्थे ठक ॥१॥२॥ इमानिति । सर्वभूतापहारिणः सर्वभूतापहारसूचकान प्रकृते तु सर्वराक्षसान् संहर्तुमुद्यतानिति योजना ॥३ ॥ अमी इति । रुधिरमय्यो धाराः येषां ते रुधिरधाराः । खरस्वरान् घोरस्तनितानि विवर्तन्ते सञ्चरन्ति ॥ ४॥ सधूमा इति प्रतापानलोयुक्ता इति भावः। अत एव मम युद्धाभिनन्दिनः । रुक्मपृष्ठानि स्वर्णमयपृष्ठानि । चापानि
आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवोत्पातिकान रामः सह भ्रात्रा ददर्श ह॥१॥ तानुत्पातान् महाघोरा नुत्थितान रोमहर्षणान् । प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ॥२॥ इमान् पश्य महाबाहो सर्वभूतापहा रिणः । समुत्थितान महोत्पातान संहर्तु सर्वराक्षसान् ॥ ३॥ अमी रुधिरधारास्तु विसृजन्तः खरस्वनान । व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः॥४॥ सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः । रुक्मष्टष्ठानि चापानि विवे ष्टन्ते च लक्ष्मण ॥५॥ यादृशा इह कूजन्ति पक्षिणो वनचारिणः । अग्रतो नो भयं प्राप्त संशयो जीवितस्य च ॥६॥ सम्प्रहारस्तु सुमहान भविष्यति न संशयः । अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः । सन्निकर्षे तु नःशूर जयं शत्रोः पराजयम् ॥७॥ धपि । “अथास्त्रियां धनुश्चापौ" इत्यमरः । विवेष्टन्ते चलन्ति, युद्धसन्नद्धानि भवन्तीत्यर्थः । आत्मनश्चापद्धयं लक्ष्मणस्यैकमिति बहुवचनम् ॥५॥ यादृशाः प्रसिद्धाः, पूर्व कृतसंवादा इत्यर्थः । अग्रतः अव्यवहितोत्तरकाले । नो भयमिति सुवाक् ॥६॥ सुमहान् सम्प्रहारः युद्धम् । बाहुः दक्षिणः। सन्नि आश्रममिति । औत्पातिकानुत्पातान् । स्वार्थे ठक ॥ १ ॥ प्रजानामहितान् । अब प्रजाशब्देन प्रकृतत्वाद्राक्षसा एवोच्यन्ते ॥ २॥ सर्वभूतापहारिणः सर्व राक्षसविनाशसूचकानिति यावत् ॥ ३ ॥ ४ ॥ एवं राक्षसाना दुनिमित्तान्युनवा स्वस्य जयसूचकानि निमित्तान्याह सधुमा इति । मम युद्धाभिनन्दिताः युद्धे अभितो नन्दो आनन्द एषां सनाता इति तथोक्ताः, श्रीरामगतो युद्धहर्षः शरेषूपचर्यते । मम युद्धहर्षसूचका इति फलितार्थः । चापानि विवेष्टन्ते विशेषेण वेष्टन्ते अभिनिमन्त्रिततत्तद्देवतासानियाच्चापेषु स्वयमेव शरास्संसक्ता भवन्तीत्यर्थः ॥५॥ अग्रतः अस्माकं परत इत्यर्थः । वनचारिणः याहशाः सौम्या: पक्षिणः कूजन्ति तादृशैस्सुनिमित्तैः नोऽस्माकम् अभय प्राप्तम् । चकारादरीणां जीवितस्य संशयश्च प्राप्त इत्यर्थः ॥ ६॥ सम्प्रहारो रणः । स्वस्य जयसूचकनिमित्ता
For Private And Personal Use Only